________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथा नकशरीरं यावति क्षेत्रेऽवगाहते ततोऽसोयगुणानि, बादरपर्याप्तपृथ्वीकायिकशरीरतुल्यानीति वृद्धाः। एषां च वालाग्राणामसङ्ख्येयत्वात् प्रतिसमयमुद्धारे किल सङ्घयेया वर्षकोव्योऽतिकामन्ति, अतः सत्येयवर्षकोटिमानमिदं सूक्ष्ममुद्धारपल्योपममवसेयम् / तद्दशकोटिकोट्यः सूक्ष्मोद्धारसापरोपमम् / आभ्यां पल्योपम-सागरोपमाभ्यां द्वीपाः समुद्राश्च मीयन्ते। उक्तं चानुयोगद्वारेषु - एएहिं सुहुमउद्धारपलिओवमसागरोबमेहिं किं पओयणं ? एएहिं दीवसमुद्दाणं उद्धारे घिप्पइ / केवइया णं भर्ते ! दीवसमुद्दा उद्धारेणं पन्नत्ता ? गोयमा ! जावइया णं अड्डाइजाणं उद्धारसागरोवमाणं उद्धारसमया एवइया णं दीवसमुद्दा उद्धारेणं पन्नत्ता // ( पत्र 181-1) भाष्यसुधाम्भोमिधिरप्याह उद्धारसागराणं, अड्डाइज्जाण जत्तिया समया / दुगुणादुगुणपवित्थर, दीवोदहि हुंति एवइया // (जिनभ० सङ्ग्र० गा० 80) इत्युक्तं बादर-सूक्ष्मभेदतो द्विविधमप्युद्धारपल्योपमम् 1 / सम्प्रति द्विविधमेवाद्धापल्योपमं प्ररूप्यते-तत्र पूर्वोक्तपल्याद् वर्षशतेऽतिक्रान्ते एकैकवालाग्रापहारेण निर्लेपनाकालः सङ्येयवर्षकोटीमानो बादरमद्धापल्योपमम् , तद्दशकोटीकोट्यो बादरमद्धासागरोपमम् / तथैव पूर्वोक्तपल्याद्वर्षशते वर्षशतेऽतिकान्ते एकैकवालाग्रासङ्ख्येयतमखण्डापहारेण निर्लेपनाकालोऽसङ्ख्यातवर्षकोटीमानः सूक्ष्ममद्धापल्योपमम्, तद्दशकोटीकोट्यः सूक्ष्ममद्धासागरोपैमम्, तद्दशसागरोपमकोटीकोटीप्रमाणाऽवसर्पिणी, तावत्प्रमाणैवोत्सर्पिण्यपि, अवसर्पिणी-उत्सर्पिण्योऽनन्ताः पुद्गलपरावर्तः, अनन्ताः पुद्गलपरावर्ताः अतीताद्धा, अनन्ताः पुद्गलपरावर्ता अनागताद्धा चेति / उक्तं च श्रीभगवतीटीकायां अहवा पडुच्च कालं, न सबभवाण होइ वुच्छित्ती। जं तीयऽणागयाओ, अद्धाओ दो वि तुल्लाओ // (शत० 12 उ० 2) अयमत्राभिप्रायः-यथाऽनागताद्धाया अन्तो नास्ति, एवमतीताद्धाया आदिरिति व्यक्तं समत्वमिति / अन्ये त्वाहुः उस्सप्पिणी अणंता, पुग्गलपरियट्टओ मुणेयो। तेऽणन्ता तीयऽद्धा, अणागयद्धा अणंतगुणा // (जीवस० गा० 129) अत्रेयं भावना-अतीताद्धातोऽनागताद्धाया अनन्तगुणत्वम् समयावलिकादिभिरनवरतं क्षीयमाणाया अप्यनागताद्धाया अक्षयात् / १एताभ्यां सूक्ष्मोद्धारपल्योपमसागरोपमाभ्यां किं प्रयोजनम् ? एताभ्यां द्वीपसमुद्राणामुद्धारो गृह्यते / कियन्तो भदन्त / द्वीप-समुद्रा उद्धारेण प्रज्ञप्ताः ? गौतम ! यावतामर्धतृतीयानामुद्धारसागरोपमाणां उद्धारसमया एतावन्तो द्वीपसमुद्रा उद्धारेण प्रज्ञप्ताः // 2 उदारसागराणां अर्धतृतीयानां यावन्तः समयाः। द्विगुणद्विगुणप्रविस्तरा द्वीपोदधयो भवन्त्येतावन्तः // 3 सं० 1-2 त०म० छा० °पमं, दशसाग° // 4 अथवा प्रतीत्य कालं न सर्वभव्यानां भवति व्युच्छित्तिः / यदतीतानागते अद्धे द्वे अपि तुल्ये।। 5 उत्सर्पिण्योऽनन्ताः पुद्गलपरावत्तों ज्ञातव्यः / तेऽनन्ता अतीताद्धाऽनागताद्धा चानन्तगुणा / /