________________ 90-91] शतकनामा पञ्चमः कर्मग्रन्थः / 107 - "बितिगुण विणु मोहि सत्त मिच्छाइ" ति 'मोहे' मोहनीयस्योत्कृष्टप्रदेशबन्धस्वामित्वे 'द्वितीय-तृतीयगुणौ विना' सास्वादनसम्यग्दृष्टि सम्यग्मिथ्यादृष्टिगुणस्थानके च वर्जयित्वा शेषाणि मिथ्यादृष्ट्यादीनि अनिवृत्तिबादरान्तानि सप्त गुणस्थानकान्यधिक्रियन्ते / / - इदमत्र हृदयम्-मिथ्यादृष्टि-अविरत-देशविरत-प्रमत्ता-प्रमत्ता-ऽपूर्वकरणा-ऽनिवृत्तिबादरगुणस्थानकवर्तिनः सप्त जना उत्कृष्टयोगे वर्तमानाः सप्तविधबन्धका मोहस्योत्कृष्टं प्रदेशबन्धं कुर्वन्ति / अन्ये तु सास्वादन-मिश्रावपि सङ्गृह्य "मोहस्स नव उ ठाणाणि" त्ति पठन्ति तच्च न युक्तियुक्तम् , यतः सास्वादनस्योत्कृष्टयोगो न लभ्यते इत्युक्तमेव, मिश्रेऽप्युत्कृष्टयोगो न लभ्यते / तथाहि-द्वितीयकषायाणा मुत्कृष्टप्रदेशबन्धस्वामिनमविरतमेव निर्देक्ष्यति “अजया देसा बितिकसाए" इति वचनात् / यदि तु मिश्रेऽप्युत्कृष्टयोगो लभ्यते तदा सोऽपि तत्स्वामितया निर्दिश्येत / न च वक्तव्यम्-मिश्रादल्पतरप्रकृतिबन्धकोऽविरत इत्ययमेव गृहीतः, यतोऽविरतोऽपि मूलप्रकृतीनां सप्तविधवन्धकस्तत्र ग्रहीष्यते, मिश्रोऽपि सप्तविधबन्धक एव, उत्तरप्रकृतीरपि मोहनीयस्य सप्तदशाविरतो बध्नाति, मिश्रोऽप्येतावतीरेव, तस्मादुत्कृष्टयोगाभावं विहाय नापरं तत्परित्यागे कारणं समीक्षामहे इति / मिश्रेऽप्युत्कृष्टयोगाभावात् सप्तैव मोहोत्कृष्टप्रदेशबन्धका इति स्थितम् / “छठं सतरस सुहुमु" ति मूलप्रकृतीनां 'षण्णां' ज्ञानावरण-दर्शनावरण-वेदनीय-नाम-गोत्रा-ऽन्तरायलक्षणानां सूचकवात् सूत्रस्य 'सूक्ष्मः' सूक्ष्मसम्पराय उत्कृटयोगे वर्तमान उत्कृष्टप्रदेशबन्धं विदधाति / सूक्ष्मसम्परायो हि मोहा-ऽऽयुषी न बध्नाति, अतस्तद्भागोऽधिको लभ्यत इत्यस्यैव ग्रहणमिति। तथा सप्तदशानां' ज्ञानावरणपञ्चक-दर्शनावरणचतुष्टयसातवेदनीय-यशःकीर्ति-उच्चैर्गोत्रा-ऽन्तरायपञ्चकलक्षणानामुत्तरप्रकृतीनां सूक्ष्मसम्पराय उत्कृष्टयोगे वर्तमान उत्कृष्टप्रदेशबन्धं विदधाति, मोहा-ऽऽयुषी असौ न बध्नातीत्यत्र तद्भागोऽधिको लभ्यते। अपरं च दर्शनावरणभागो नामभागश्च सर्वोऽपीह यथासङ्ख्यं दर्शनावरणचतुष्कस्य यशःकीर्तेश्चैकस्या भवतीति सूक्ष्मसम्परायस्यैव ग्रहणम् / “अजया देसा बितिकसाए" ति 'अयताः' अविरतसम्यग्दृष्टयः सप्तविधबन्धका उत्कृष्टयोगे वर्तमानाः 'द्वितीयकषायान्' अप्रत्याख्यानावरणानुत्कृष्टप्रदेशबन्धान् विदधति, मिथ्यात्वमनन्तानुबन्धिनश्चैते न बध्नन्त्यतस्तद्भागद्रव्यमधिकं लभ्यत इत्यमीषामेव ग्रहणम् / तथा 'देशाः' देशविरताः सप्तविधबन्धका उत्कृष्टयोगे वर्तमानाः 'तृतीयकषायान् / प्रत्याख्यानावरणाख्यानुत्कृष्टप्रदेशबन्धान् कुर्वते, अप्रत्याख्यानावरणानामप्यमी अबन्धका अतस्तद्भागोऽधिको लभ्यत इति कृत्वा // 90 // . पण अनियही सुखगइनराउसुरसुभगतिगविउव्विदुगं। समचउरंसमसायं, वहरं मिच्छो व सम्मो वा // 91 // "पण" त्ति पञ्च प्रकृतीः-पुरुषवेद-संज्वलनचतुष्टयलक्षणाः अनिवृत्तिबादरः सर्वोत्कृष्टयोगे वर्तमान उत्कृष्टप्रदेशबन्धाः करोति। तत्र पुरुषवेदस्य पुंवेद-संज्वलनचतुष्टयात्मकं पञ्चविधं बध्नन् असावुत्कृष्टं प्रदेशबन्धं करोति, हास्य-रति-भय-जुगुप्साभागो लभ्यत इत्यस्यैव ग्रहणम् / संज्वलनक्रोधस्यानिवृत्तिबादरः पुंवेदबन्धे व्यवच्छिन्ने संज्वलनक्रोधादिचतुष्टयं बनन् उत्कृष्टयोगे वर्त 1 सं० 1-2 म० छा० तद्भागो लभ्य० //