Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text ________________ 24] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 177 केन्द्रियप्रायोम्यमातप-उद्योतान्यतरसहितं बनतो मिथ्यादृष्टेरवगन्तव्यम् / अत्र भनाः षोडश, ते चातप-उद्योत-स्थिरा-ऽस्थिर-शुभा-ऽशुभ-यशःकीर्ति-अयशःकीर्तिपदैरवसेयाः, आतप-उद्योताभ्यां च सह सूक्ष्म-साधारणबन्धो न भवति, ततस्तदाश्रिता विकल्पा अत्र न प्राप्यन्ते / एकेन्द्रियाणां सर्वसम्पया भकाश्चत्वारिंशत् , तदुक्तम्-- चत्तारि वीस सोलस, भंगा एगिदियाण चत्ताला / ( ) . द्वीन्द्रियप्रायोग्य बनतो बन्धस्थानानि त्रीणि, तद्यथा--पञ्चविंशतिः एकोनत्रिंशत् त्रिंशत्। तत्र तिर्यग्गतिः तिर्यगानुपूर्वी द्वीन्द्रियजातिः औदारिक-तैजस-कार्मणानि हुण्डसंस्थानं सेवार्तसंहननम् औदारिकाङ्गोपाङ्गं वर्णादिचतुष्टयम् अगुरुलघु उपघातनाम त्रसनाम बादरनाम अपर्याप्तकनाम प्रत्येकनाम अस्थिरम् अशुभं दुर्भगम् अनादेयम् अयशःकीर्तिः निर्माणमिति / एतासां पञ्चविंशतिप्रकृतीनां समुदाय एकं बन्धस्थानम् , तच्चापर्याप्तकद्वीन्द्रियप्रायोग्यं बनतो मिथ्यादृष्टेरवसेयम् / अपर्याप्तकेन च सह परावर्तमानप्रकृतयोऽशुभा एव बन्धमायान्तीति कृत्वा अत्रैक एव भङ्गः / एषैव पञ्चविंशतिः पराघात-उच्छ्वासा-प्रशस्तविहायोगति-पर्याप्तक-दुःस्वरसहिता अपर्याप्तकरहिता एकोनत्रिंशद् भवति, नवरमेवमेषा वक्तव्या-तिर्यग्गतिः तिर्यगानुपूर्वी द्वीन्द्रियजातिः औदारिकम् औदारिकाङ्गोपाङ्गं तैजस-कार्मणे हुण्डसंस्थानं सेवार्तसंहननं वर्णादिचतुष्टयम् अगुरुलघु पराघातम् उपघातम् उच्छ्वासनाम अप्रशस्तविहायोगतिः त्रसनाम बादरनाम पर्याप्तकनाम प्रत्येकं स्थिरा-ऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं दुःस्वरं दुर्भगम् अनादेयं यशःकीर्तिअयशःकीोरेकतरं निर्माणमिति / एतासामेकोनत्रिंशत्प्रकृतीनां समुदाय एकं बन्धस्थानम् , तच्च पर्याप्तकद्वीन्द्रियप्रायोग्यं बनतो मिथ्यादृष्टेः प्रत्येतव्यम् / अत्र स्थिरा-ऽस्थिर-शुभा-ऽशुभ-यशःकीर्ति-अयशःकीर्तिपदैरष्टौ भनाः / सैव एकोनत्रिंशद् उद्योतसहिता त्रिंशत् , अत्रापि त एवाष्टौ भङ्गाः, सर्वसङ्ख्यया सप्तदश। एवं त्रीन्द्रियप्रायोग्यं चतुरिन्द्रियप्रायोग्यं च बनतो मिथ्यादृष्टस्त्रीणि त्रीणि बन्धस्थानानि वाच्यानि, नवरं त्रीन्द्रियाणां श्रीन्द्रियजातिरभिलपनीया चतुरिन्द्रियाणां चतुरिन्द्रियजातिः, भङ्गाश्च प्रत्येकं सप्तदश सप्तदश, सर्वसङ्ख्यया एकपञ्चाशत् / उक्तं च एंगऽट्ट अट्ठ विगलिंदियाण इगवण्ण तिण्हं पि / ( ) तिर्यग्गतिपञ्चेन्द्रियप्रायोग्यं बन्धतस्त्रीणि बन्धस्थानानि / तद्यथा-पञ्चविंशतिः एकोनत्रिंशत् त्रिंशत् / तत्र पञ्चविंशतिः द्वीन्द्रियप्रायोग्यं बनत इव वेदितव्या, नवरं द्वीन्द्रियजातिस्थाने पञ्चेन्द्रियजा तिर्वक्तव्या, तत्र चैको भङ्गः / एकोनत्रिंशत् पुनरियम्-तिर्यग्गति-तिर्यगामुपूर्णे पञ्चेन्द्रियजातिः औदारिकम् औदारिकाङ्गोपाङ्गं तैजस-कार्मणे षण्णां संस्थानानामेकतमत् संस्थानं षण्णां संहननानामेकतमत् संहननं वर्णादिचतुष्टयम् अगुरुलघु उपघातं पराघातम् उच्छ्वा 1 सं० 1 त० ताभ्यां स° // 2 चत्वारि विंशतिः षोडश भङ्गा एकेन्द्रियाणां चत्वारिंशत् // 2 सं० सं०१त. 'न्तीति, अत्रै // 3 एकोऽष्टौ अष्टौ विकलेन्द्रियाणां एकपञ्चाशत् त्रयागामपि // 4 मुद्रि० त एव वे // 23 ग
Loading... Page Navigation 1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334