________________ 24] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 177 केन्द्रियप्रायोम्यमातप-उद्योतान्यतरसहितं बनतो मिथ्यादृष्टेरवगन्तव्यम् / अत्र भनाः षोडश, ते चातप-उद्योत-स्थिरा-ऽस्थिर-शुभा-ऽशुभ-यशःकीर्ति-अयशःकीर्तिपदैरवसेयाः, आतप-उद्योताभ्यां च सह सूक्ष्म-साधारणबन्धो न भवति, ततस्तदाश्रिता विकल्पा अत्र न प्राप्यन्ते / एकेन्द्रियाणां सर्वसम्पया भकाश्चत्वारिंशत् , तदुक्तम्-- चत्तारि वीस सोलस, भंगा एगिदियाण चत्ताला / ( ) . द्वीन्द्रियप्रायोग्य बनतो बन्धस्थानानि त्रीणि, तद्यथा--पञ्चविंशतिः एकोनत्रिंशत् त्रिंशत्। तत्र तिर्यग्गतिः तिर्यगानुपूर्वी द्वीन्द्रियजातिः औदारिक-तैजस-कार्मणानि हुण्डसंस्थानं सेवार्तसंहननम् औदारिकाङ्गोपाङ्गं वर्णादिचतुष्टयम् अगुरुलघु उपघातनाम त्रसनाम बादरनाम अपर्याप्तकनाम प्रत्येकनाम अस्थिरम् अशुभं दुर्भगम् अनादेयम् अयशःकीर्तिः निर्माणमिति / एतासां पञ्चविंशतिप्रकृतीनां समुदाय एकं बन्धस्थानम् , तच्चापर्याप्तकद्वीन्द्रियप्रायोग्यं बनतो मिथ्यादृष्टेरवसेयम् / अपर्याप्तकेन च सह परावर्तमानप्रकृतयोऽशुभा एव बन्धमायान्तीति कृत्वा अत्रैक एव भङ्गः / एषैव पञ्चविंशतिः पराघात-उच्छ्वासा-प्रशस्तविहायोगति-पर्याप्तक-दुःस्वरसहिता अपर्याप्तकरहिता एकोनत्रिंशद् भवति, नवरमेवमेषा वक्तव्या-तिर्यग्गतिः तिर्यगानुपूर्वी द्वीन्द्रियजातिः औदारिकम् औदारिकाङ्गोपाङ्गं तैजस-कार्मणे हुण्डसंस्थानं सेवार्तसंहननं वर्णादिचतुष्टयम् अगुरुलघु पराघातम् उपघातम् उच्छ्वासनाम अप्रशस्तविहायोगतिः त्रसनाम बादरनाम पर्याप्तकनाम प्रत्येकं स्थिरा-ऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं दुःस्वरं दुर्भगम् अनादेयं यशःकीर्तिअयशःकीोरेकतरं निर्माणमिति / एतासामेकोनत्रिंशत्प्रकृतीनां समुदाय एकं बन्धस्थानम् , तच्च पर्याप्तकद्वीन्द्रियप्रायोग्यं बनतो मिथ्यादृष्टेः प्रत्येतव्यम् / अत्र स्थिरा-ऽस्थिर-शुभा-ऽशुभ-यशःकीर्ति-अयशःकीर्तिपदैरष्टौ भनाः / सैव एकोनत्रिंशद् उद्योतसहिता त्रिंशत् , अत्रापि त एवाष्टौ भङ्गाः, सर्वसङ्ख्यया सप्तदश। एवं त्रीन्द्रियप्रायोग्यं चतुरिन्द्रियप्रायोग्यं च बनतो मिथ्यादृष्टस्त्रीणि त्रीणि बन्धस्थानानि वाच्यानि, नवरं त्रीन्द्रियाणां श्रीन्द्रियजातिरभिलपनीया चतुरिन्द्रियाणां चतुरिन्द्रियजातिः, भङ्गाश्च प्रत्येकं सप्तदश सप्तदश, सर्वसङ्ख्यया एकपञ्चाशत् / उक्तं च एंगऽट्ट अट्ठ विगलिंदियाण इगवण्ण तिण्हं पि / ( ) तिर्यग्गतिपञ्चेन्द्रियप्रायोग्यं बन्धतस्त्रीणि बन्धस्थानानि / तद्यथा-पञ्चविंशतिः एकोनत्रिंशत् त्रिंशत् / तत्र पञ्चविंशतिः द्वीन्द्रियप्रायोग्यं बनत इव वेदितव्या, नवरं द्वीन्द्रियजातिस्थाने पञ्चेन्द्रियजा तिर्वक्तव्या, तत्र चैको भङ्गः / एकोनत्रिंशत् पुनरियम्-तिर्यग्गति-तिर्यगामुपूर्णे पञ्चेन्द्रियजातिः औदारिकम् औदारिकाङ्गोपाङ्गं तैजस-कार्मणे षण्णां संस्थानानामेकतमत् संस्थानं षण्णां संहननानामेकतमत् संहननं वर्णादिचतुष्टयम् अगुरुलघु उपघातं पराघातम् उच्छ्वा 1 सं० 1 त० ताभ्यां स° // 2 चत्वारि विंशतिः षोडश भङ्गा एकेन्द्रियाणां चत्वारिंशत् // 2 सं० सं०१त. 'न्तीति, अत्रै // 3 एकोऽष्टौ अष्टौ विकलेन्द्रियाणां एकपञ्चाशत् त्रयागामपि // 4 मुद्रि० त एव वे // 23 ग