________________ 178 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [ गाथाः सनाम प्रशस्ता-प्रशस्तविहायोगत्योरेकतरा त्रसनाम बादरनाम पर्याप्तकनाम प्रत्येकं स्थिराऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं सुभग-दुर्भगयोरेकतरं सुस्वर-दुःस्वरयोरेकतरम् आदेयाऽनादेययोरेकतरं यशःकीर्ति-अयशःकीयोरेकतरं निर्माणमिति। एतासामेकोनत्रिंशत्प्रकृतीनां समुदाय एकं बन्धस्थानम् / एतच्च मिथ्यादृष्टेः पर्याप्ततिर्यक्पञ्चेन्द्रियप्रायोग्यं बनतो वेदितव्यम्। यदि पुनः सासादनो बन्धको भवति तर्हि तस्य पञ्चानामाद्यानां संस्थानानामन्यतमत् संस्थानं पञ्चीनां संहननानामन्यतमत् संहननमिति वक्तव्यम् , "हुंडं असंपत्तं व सासणो न बंधइ" ( ) इति वचनात् / अस्यां चैकोनत्रिंशति सामान्येन षभिः संस्थानैः षड्भिः संहननैः प्रशस्ता-प्रशस्तविहायोगतिभ्यां स्थिरा-ऽस्थिराभ्यां शुभा-ऽशुभाभ्यां सुभग-दुर्भगाभ्यां सुस्वरदुःस्वराभ्यां आदेया-ऽनादेयाभ्यां यशःकीर्ति-अयशःकीर्तिभ्यां भङ्गा अष्टाधिकषट्चत्वारिंशच्छतसङ्ख्या वेदितव्याः 4608 / एषैवैकोनत्रिंशद् उद्योतसहिता त्रिंशद् भवति, अत्रापि मिथ्यादृष्टि-सासादनानधिकृत्य तथैव विशेषोऽवगन्तव्यः, सामान्येन च भङ्गा अष्टाधिकषट्चत्वारिंशच्छतसङ्ख्याः 4608 / उक्तं च गुणतीसे तीसे वि य, भंगा अट्टाहिया छयालसया / पंचिंदियतिरिजोगे, पणवीसे बंधि भंगिको // ( ). सर्वसङ्ख्यया द्वानवतिशतानि सप्तदशाधिकानि 9217 / सर्वस्यां तिर्यग्गतौ सर्वसङ्ख्यया भङ्गाः त्रिनवतिशतान्यष्टाधिकानि 9308 / तथा मनुष्यगतिप्रायोग्यं बनतस्त्रीणि बन्धस्थानानि, तद्यथा-पञ्चविंशतिः एकोनत्रिंशत् त्रिंशत् / तत्र पञ्चविंशतिर्यथा प्राग् अपर्याप्तकद्वीन्द्रियप्रायोग्यं बनतोऽभिहिता तथैवावगन्तव्या। नवरमत्र मनुष्यगतिर्मनुष्यानुपूर्वी पञ्चेन्द्रियजातिरिति वक्तव्यम् / एकोनत्रिंशत् त्रिधा—एका मिथ्यादृष्टीन् बन्धकानाश्रित्य वेदितव्या, द्वितीया सासादनान् , तृतीया सम्यग्मिथ्यादृष्टीन् अविरतसम्यग्दृष्टीन् वा / तत्राये द्वे प्रागिव भावनीये / तृतीया पुनरियम्मनुष्यगतिः मनुष्यानुपूर्वी पञ्चेन्द्रियजातिः औदारिकम् औदारिकाङ्गोपाङ्गं तैजस-कार्मणे. समचतुरस्रसंस्थानं वज्रर्षभनाराचसंहननं वर्णादिचतुष्टयम् अगुरुलघु उपघातं पराघातम् उच्छ्वासनाम प्रशस्तविहायोगतिः त्रसनाम बादरनाम पर्याप्तकनाम प्रत्येकं स्थिरा-ऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं सुभगं सुस्वरम् आदेयं यशःकीर्ति-अयशःकीोरेकतरं निर्माणमिति / अस्यां चैकोनत्रिंशति त्रिप्रकारायामपि सामान्येन षड्भिः संस्थानैः षड्भिः संहननैः प्रशस्ता-प्रशस्तविहायोगतिभ्यां स्थिराऽस्थिराभ्यां शुभा-ऽशुभाभ्यां सुभग-दुर्भगाभ्यां सुस्वर-दुःस्वराभ्यां आदेयाऽनादेयाभ्यां यशःकीर्ति-अयशःकीर्तिभ्यामष्टाधिकषट्चत्वारिंशच्छतसङ्ख्याः 4608 भङ्गा वेदितव्याः / यैव तृतीया एकोनत्रिंशदुक्ता सैव तीर्थकरसहिता त्रिंशत् / अत्र च स्थिरा-ऽस्थिर १सं० म० °च्चानां संस्था // 2 सं० 1 त० °ञ्चानामाद्यानां संहनना // 3 सं० छा० °व्यम् / अस्यां // 4 हुण्डं असम्प्राप्तं वा सासादनो न बध्नाति // 5 एकोनत्रिंशत् त्रिंशदपि च भगा अष्टाधिकानि षट्चत्वारिंशच्छतानि / पञ्चेन्द्रियतिर्यग्योग्ये पञ्चविंशतौ बन्धे भङ्ग एकः॥ .