________________ 24] : चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 179 शुभा-ऽशुभ-यश कीर्ति-अयशःकीर्तिपदैरष्टौ भङ्गाः / सर्वसध्यया मनुष्यगतिप्रायोग्यवन्धस्थानेषु भन्नाः षट्चत्वारिंशच्छतानि सप्तदशाधिकानि 4617 / उक्तं च पणुवीसयम्मि एक्को, छायालसया अडुत्तर गुतीसे / मणुतीसेऽट उ सबे, छायालसया उ सत्तरसा // ( ) तथा देवगतिप्रायोग्यं बध्नतश्चत्वारि बन्धस्थानानि, तद्यथा-अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / तत्राष्टाविंशतिरियम्-देवगतिः देवानुपूर्वी पञ्चेन्द्रियजातिः वैक्रियं वैकियाङ्गोपाङ्गं तैजस-कार्मणे समचतुरस्रसंस्थानं वर्णादिचतुष्टयम् अगुरुलघु पराघातम् उपघातम् उच्छ्वासनाम प्रशस्तविहायोगतिः त्रसनाम बादरनाम पर्याप्तकनाम प्रत्येकनाम स्थिरा-ऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं सुभगं सुस्वरम् आदेयं यशःकीर्ति-अयशःकीोरेकतरं निर्माणमिति / एतासां समुदाय एकं बन्धस्थानम् / एतच्च मिथ्यादृष्टि-सासादन-मिश्रा-ऽविरतसम्यग्दृष्टि-देशविरत-सर्वविरतानां देवगतिप्रायोग्यं बनतामवसेयम् / अत्र स्थिराऽस्थिर-शुभा-ऽशुभयशःकीर्ति-अयश कीर्तिपदैरष्टौ भङ्गाः / एषैवाष्टाविंशतिस्तीर्थकरसहिता एकोनत्रिंशद् भवति, अत्रापि त एवाष्टौ भङ्गाः / नवरमेनां देवगतिप्रायोग्यां बनन्तोऽविरतसम्यग्दृष्ट्यादयो बध्नन्ति / त्रिंशत् पुनरियम्-देवगतिः देवानुपूर्वी पञ्चेन्द्रियजातिः वैक्रियं वैक्रियाङ्गोपाङ्गम् आहारकम् आहारकाङ्गोपाङ्गं तैजस-कार्मणे समचतुरस्रसंस्थानं वर्णादिचतुष्टयम् अगुरुलघु उपघातं पराघातम् उच्छ्वासनाम प्रशस्तविहायोगतिः त्रसनाम बादरनाम पर्याप्तकनाम प्रत्येकनाम शुभनाम स्थिरनाम सुभगनाम सुस्वरनाम आदेयनाम यशःकीर्तिनाम निर्माणनामेति / एतासां त्रिंशत्प्रकृतीनां समुदाय एकं बन्धस्थानम् / एतच्च देवगतिप्रायोग्यं बनतोऽप्रमत्तसंयतस्याऽपूर्वकरणस्य वा वेदितव्यम् / अत्र सर्वाण्यपि शुभान्येव कर्माणि बन्धमायान्तीति कृत्वा एक एव भङ्गः / एषैव त्रिंशत् तीर्थकरसहिता एकत्रिंशद् भवति, अत्राप्येक एव भङ्गः / सर्वसङ्ख्यथा देवगतिप्रायोग्यबन्धस्थानेषु भङ्गा अष्टादश / तदुक्तम् अँट्टष्ट एक एक्कग, भंगा अट्ठार देवजोगेसु / ( ) तथा नरकगतिप्रायोग्यं बनत एकं बन्धस्थानं अष्टाविंशतिः, सा चेयम्-नरकगतिः नरकानुपूर्वी पञ्चेन्द्रियजातिः वैकियं वैक्रियाङ्गोपाङ्गं तैजस-कार्मणे हुण्डसंस्थानं वर्णादिचतुष्टयम् अगुरुलघु उपघातं पराघातम् उच्छासनाम अप्रशस्तविहायोगतिः त्रसनाम बादरनाम पर्याप्तकनाम प्रत्येकनाम अस्थिरम् अशुभं दुर्भगं दुःस्वरम् अनादेयम् अयशःकीर्तिः निर्माणमिति / एतासामष्टाविंशतिप्रकृतीनामेकं बन्धस्थानम्, एतच्च मिथ्यादृष्टरवसेयम् / अत्र सर्वाण्यप्यशुभान्येव कर्माणीत्येक एव भङ्गः / एकं तु बन्धस्थानं यशःकीर्तिलक्षणम्, तच्च देवगतिप्रायोग्यबन्धे, व्यवच्छिन्ने अपूर्वकरणादीनां त्रयाणामवगन्तव्यम् // 24 // 1 पञ्चविंशतावेकः षट्चत्वारिंशच्छतानि अष्टोत्तराणि एकोनविंशति / मनुष्यात्रिंशति अष्टौ तु सर्वे षट्चत्वारिंशच्छतानि तु सप्तदश // 2 मद्रि० छा० °रतानां सर्वविरतानां / सं० सं० 1 प्रतानां देवग // 3 सं०सं० 1 त० °न्तीति एक ए° // 4 अष्टावष्टावेक एकको भङ्गा अष्टादश देवयोग्येषु // 5 सं०१त. 'वजुग्गे / सं० म० छा० °वजोग्गे //