________________ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [ गाथाः नामोऽष्टौ बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् एका च / अमूनि च तिर्यग्मनुष्यादिगतिप्रायोग्यतया अनेकप्रकाराणि ततस्तथैवोपदर्श्यन्ते। तत्र तिर्यग्गतिप्रायोग्यं बध्नतः सामान्येन पञ्च बन्धस्थानानि, तद्यथात्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः एकोनत्रिंशत् त्रिंशत् / तत्राप्येकेन्द्रियप्रायोग्यं बनतस्त्रीणि बन्धस्थानानि, तद्यथा-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः / तत्र त्रयोविंशतिरियम्तिर्यग्गतिः तिर्यगानुपूर्वी एकेन्द्रियजातिः औदारिक-तैजस-कार्मणानि हुण्डसंस्थानं वर्ण-रस-गन्धस्पर्शा अगुरुलघु उपघातनाम स्थावरनाम सूक्ष्म-बादरयोरेकतरम् अपर्याप्तकनाम प्रत्येक-साधारणयोरेकतरम् अस्थिरनाम अशुभनाम दुर्भगनाम अनादेयनाम अयशःकीर्तिनाम निर्माणनाम / एतासां त्रयोविंशतिप्रकृतीनां समुदाय एकं बन्धस्थानम् , एतच्चापर्याप्तकप्रायोग्यं बनतो मिथ्याहष्टेरवसेयम् / अत्र भङ्गाश्चत्वारः, तथाहि-बादरनाम्नि बध्यमाने एका त्रयोविंशतिः प्रत्येकनाम्ना सह प्राप्यते, द्वितीया साधारणनाम्ना, एवं सूक्ष्मनाम्न्यपि बध्यमाने द्वे त्रयोविंशती, सर्वसङ्ख्यया चतस्रः / एषैव त्रयोविंशतिः पराघात-उच्छाससहिता पञ्चविंशतिः / नवरमेवमभिलपनीयातिर्यग्गतिः तिर्यगानुपूर्वी एकेन्द्रियजातिः औदारिक-तैजस-कार्मणानि हुण्डसंस्थानं वर्णादिचतुष्टयम् अगुरुलघु उपघातनाम पराघातनाम उच्छ्वासनाम स्थावरनाम बादर-सूक्ष्मयोरेकतरं पर्याप्तकं प्रत्येक-साधारणयोरेकतरं स्थिरा-ऽस्थिरयोरेकतरं शुभाऽशुभयोरेकतरं यशःकीर्ति-अयशःकीयोंरेकतरं दुर्भगम् अनादेयं निर्माणमिति। एतासां पञ्चविंशतिप्रकृतीनां समुदाय एकं बन्धस्थानम् , एतच्च पर्याप्तकैकेन्द्रियप्रायोग्यं बनतो मिथ्यादृष्टेरवगन्तव्यम् / अत्र भङ्गा विंशतिः-तत्र बादरपर्याप्त-प्रत्येकेषु बध्यमानेषु स्थिरा-ऽस्थिर-शुभा-ऽशुभ-यशःकीर्ति-अयशःकीर्तिभिरष्टौ भनाः, तथाहि-बादर-पर्याप्त-प्रत्येक-स्थिर-शुभेषु बध्यमानेषु यशःकीर्त्या सह एकः, द्वितीयोऽयशःकीर्त्या, एतौ च द्वौ भङ्गौ शुभपदेन लब्धौ, एवमशुभपदेनापि द्वौ भङ्गो लभ्येते ततो जाताश्चत्वारः, एते चत्वारः स्थिरपदेन लब्धाः, एवमस्थिरपदेनापि चत्वारो लभ्यन्ते ततो जाता अष्टौ। एवं पर्याप्त-बादर-साधारणेषु बध्यमानेषु स्थिरा-ऽस्थिर-शुभा-ऽशुभा-ऽयशःकीर्तिपदैश्चत्वारः, यतः साधारणेन सह यशःकीर्तिबन्धो न भवति “नो सुहुमतिगेण जसं" (. ) इति वचनात् , ततस्तदाश्रिता विकल्पा न प्राप्यन्ते / सूक्ष्म-पर्याप्तनानोर्बध्यमानयोः प्रत्येक-साधारणस्थिरा-ऽस्थिर-शुभा-शुभा-ऽयशःकीर्तिपदैरष्टौ, सूक्ष्मेणापि सह यशःकीर्तेर्बन्धाभावादत्रापि तदाश्रिता विकल्पा न प्राप्यन्ते / तदेवं सर्वसङ्ख्यया पञ्चविंशतिबन्धे विंशतिर्भङ्गाः / एषैव पञ्चविंशतिरातप-उद्योतान्यतरसहिता षड्विंशतिः, नवरमेवमभिलपनीया-तिर्यग्गतिः तिर्यगानुपूर्वी एकेन्द्रियजातिः औदारिक-तैजस-कार्मणानि हुण्डसंस्थानं वर्णादिचतुष्टयम् अगुरुलघु पराघातम् उपघातम् उच्छ्वासनाम स्थावरनाम आतप-उद्योतयोरेकतरं बादरनाम पर्याप्तकनाम प्रत्येकनाम स्थिरा-ऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं दुर्भगम् अनादेयं यशःकीर्ति-अयशःकीोरेकतरं निर्माणमिति / एतासां च षड्विंशतिप्रकृतीनां समुदाय एकं बन्धस्थानम् / एतच्च पर्याप्तकै 1 केषुचिदादर्शेषु कतरा केषुचिद् कतरं एवमग्रेऽपि // 2 नो सूक्ष्मत्रिकेण यशः //