________________ 175 22-24] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / समयद्वयोनावलिकाद्विकमात्रेण कालेन क्षयमुपयास्यति, यावच न याति तावच्चतस्रः प्रकृतयः त्रिविधबन्धे सत्यः, क्षीणे तु तस्मिस्तिस्रः, ताश्चान्तर्मुहूर्त कालं यावदवगन्तव्याः / द्विविधबन्धे पुनरमूनि पञ्च सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विशतिः एकविंशतिः तिस्रः द्वे च / तत्राद्यानि त्रीणि प्रागिव / शेषे तु द्वे क्षपकश्रेण्याम् , ते चैवम् - संज्वलनमानस्य प्रथमस्थितौ आवलिकामात्रशेषायां संज्वलनमानस्य बन्ध-उदय-उदीरणा युगपद् व्यवच्छिद्यन्ते, तासु च व्यवच्छिन्नासु बन्धो द्विविधो भवति, संज्वलनमानस्य च तदानीं प्रथमस्थितिगतमावलिकामानं समयद्वयोनावलिकाद्विकबद्धं च दलिंकं सत्, अन्यत् सर्व क्षीणम् , तदपि च सत् समयद्वयोनावलिकाद्विकमात्रेण कालेन क्षयमापत्स्यते, यावच्च नापद्यते तावत् तिस्रः सत्यः, क्षीणे तु तस्मिन् द्वे, ते अप्यन्तर्मुहूर्त कालं यावत् सत्यौ / एकविधबन्धे पुनः पञ्च सत्तास्थानान्यमूनि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः द्वे एका च / तत्राद्यानि त्रीणि प्रागिवोपशमश्रेण्याम् / शेषे तु द्वे क्षपकश्रेण्याम् , ते चैवम्-संज्वलनमायायाः प्रथमस्थितावावलिकाशेषायां बन्ध-उदय-उदीरणा युगपद् व्यवच्छेदमुपयान्ति, व्यवच्छिन्नासु च तासु बन्ध एकविधो भवति, संज्वलनमायायाश्च तदानीं प्रथमस्थितिगतमावलिकामानं समयद्वयोनावलिकाद्विकबद्धं च सदस्ति, अन्यत् समस्तं क्षीणम्, तदपि च सत् समयद्वयोनावलिकाद्विकमात्रेण कालेन क्षयमुपगमिष्यति, यावच्च न क्षयमुपयाति तावद् द्वे सँती, क्षीणे तु तस्मिन्नेका प्रकृतिः संज्वलनलोभरूपा सती। __"चत्तारि य बंधवोच्छेए" इति 'बन्धव्यवच्छेदे' बन्धाभावे सूक्ष्मसम्परायगुणस्थाने चत्वारि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विशतिः एकविंशतिः एका च / तत्राद्यानि त्रीणि प्रागिवोपशमश्रेण्याम् / एका तु संज्वलनलोभरूपा प्रकृतिः क्षपकश्रेण्याम् // 22 // तदेवं कृता संवेधचिन्ता / सम्प्रत्युपसंहारमाह दसनवपन्नरसाई, बंधोदयसन्तपयडिठाणाई। भणियाइँ मोहणिज्जे, इत्तो नामं परं वोच्छ // 23 // बन्ध-उदय-सत्प्रकृतिस्थानानि यथासङ्ख्यं दश-नव-पञ्च-दशसङ्ख्यानि प्रत्येकं संवेधद्वारेणे च मोहनीयकर्मणि भणितानि / 'इतः परं' अत ऊर्ध्व 'नाम वक्ष्ये' नानो बन्धादिस्थानानि वक्ष्ये // 23 // तत्र प्रथमतो बन्धस्थाननिरूपणार्थमाह तेवीस पण्णवीसा, छब्बीसा अट्टवीस गुणतीसा। तीसेगतीसमेकं, बंधहाणाणि नामस्स // 24 // 1 छा०म० प्रागिवोपशमश्रेण्याम् / शे° // 2 सं०१त० म० °कं मुक्त्वा अ°॥ 3 छा० नाद्यापि क्षीयते ता° // 4 सं० त० म० सत्यौ, // 5 म० °ण मोहनीयकर्मणि सर्वसंख्यया भ° // 6 गाथेयं सप्ततिभाष्यस्य अष्टपञ्चाशत्तमी // 7 सं० 1 छा० °स उगुती° //