________________ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः त्वेकविंशतिवर्जानि शेषाणि चत्वारि / तानि चाविरतसम्यग्दृष्टयुक्तभावनानुसारेण भावनीयानि / एवं नवबन्धकानामपि प्रमत्ता-ऽप्रमत्तानां प्रत्येकं चतुष्कोदये त्रीणि त्रीणि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशत्तिः एकविंशतिश्च / पञ्चकोदये षट्कोदये च प्रत्येकं पञ्च पञ्च सत्तास्थानानि / सप्तोदये त्वेकविंशतिवर्जानि शेषाणि चत्वारि सत्तास्थानानि वाच्यानि // 21 // "पंचविहचउविहेसुं छ छक्क" त्ति पञ्चविधे चतुर्विधे च बन्धे प्रत्येकं षट् षट् सत्तास्थानानि / तत्र पञ्चविधे बन्धे अमूनि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः त्रयोदश द्वादश एकादश च / तत्राष्टाविंशतिः चतुर्विंशतिश्चौपशमिकसम्यग्दृष्टरुपशमश्रेण्याम् / एकविंशतिरुपशमश्रेण्यां क्षायिकसम्यग्दृष्टेः / क्षपकश्रेण्यां पुनरष्टौ कषाया यावद् न क्षीयन्ते तावदेकविंशतिः / अष्टसु कषायेषु क्षीणेषु पुनस्त्रयोदश / ततो नपुंसकवेदे क्षीणे द्वादश / ततः स्त्रीवेदे क्षीणे एकादश / पञ्चादीनि तु सत्तास्थानानि पञ्चविधबन्धे न प्राप्यन्ते, यतः पञ्चविधबन्धः पुरुषवेदे बध्यमाने भवति, यावच्च पुरुषवेदस्य बन्धस्तावत् षड् नोकषायाः सन्त एवेति / चतुर्विधबन्धे पुनरमूनि षट् सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः. एकविंशतिः एकादश पञ्च चतस्रः / तत्राष्टाविंशति-चतुर्विंशति-एकविंशतय उपशमश्रेण्याम् / एकादश पुनरेवं प्राप्यन्ते--इह कश्चिद् नपुंसकवेदेन क्षपकश्रेणिं प्रतिपन्नः, स च स्त्रीवेद-नपुंसकवेदौ युगपत् क्षपयति, स्त्रीवेद-नपुंसकवेदक्षयसमकालमेव च पुरुषवेदस्य बन्धो व्यवच्छिद्यते, तदनन्तरं च पुरुषवेद-हास्यादिषट्के युगपत् क्षपयति; यदि पुनः स्त्रीवेदेन क्षपकश्रेणिं प्रतिपद्यते, ततः प्रथमतो नपुंसकवेदं क्षपयति, ततोऽन्तर्मुहूर्तेन स्त्रीवेदम्, स्त्रीवेदक्षयसमकालमेव च पुरुषवेदस्य बन्धव्यवच्छेदः, ततस्तदनन्तरं पुरुषवेद-हास्यादिषट्के युगपत् क्षपयति; यावच न क्षीयते तावदुभयत्रापि चतुर्विधबन्धे वेदोदयरहितस्य एकोदये वर्तमानस्य एकादशकं सत्तास्थानमवाप्यते / पुरुषवेद-हास्यादिषट्कयोस्तु युगपत् क्षीणयोश्चतस्रः प्रकृतयः सत्यः / एवं च स्त्रीवेदेन नपुंसकवेदेन वा क्षपकश्रेणिं प्रतिपन्नस्य पञ्चप्रकृत्यात्मकं सत्तास्थानं नावाप्यते / यस्तु पुरुषवेदेन क्षपकश्रेणिं प्रतिपद्यते तस्य षण्नोकषायक्षयसमकालं पुरुषवेदस्य बन्धव्यवच्छेदो भवति, ततस्तस्य चतुर्विधबन्धकाले एकादशरूपं सत्तास्थानं न प्राप्यते, किन्तु पञ्चप्रकृत्यात्मकम् , ताश्च पञ्च समयद्वयोनावलिकाद्विकं यावत् सत्यो वेदितव्याः। ततः पुरुषवेदे क्षीणे चतस्रः, ता अप्यन्तर्मुहूर्त कालं यावत् सत्यः प्रतिपत्तव्याः / "सेसेसु जाण पंचेव पत्तेयं पत्तेयं" शेषेषु त्रिविधद्विविधैकविधेषु बन्धेषु प्रत्येकं पञ्च पञ्च सत्तास्थानानि / तत्र त्रिविधबन्धे अमूनि-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः चतस्रः तिस्रः / तत्रादिमानि त्रीणि उपशमश्रेणिमधिकृत्य वेदितव्यानि / शेषे तु द्वे क्षपकश्रेण्याम् , ते चैवम्संज्वलनक्रोधस्य प्रथमस्थितावावलिकाशेषायां बन्ध-उदय-उदीरणा युगपद् व्यवच्छेदमायान्ति, व्यवच्छिन्नासु च तासु बन्धस्त्रिविधो जातः, संज्वलनक्रोधस्य च तदानीं प्रथमस्थितिगतमावलिकामानं समयद्वयोनावलिकाद्विकबद्धं च दलिकं मुक्त्वा अन्यत् सर्व क्षीणम् , तदपि च सत् 1 सं० छा० त्योऽवगन्तव्याः। “से / सं०१त. त्यः। “से° //