________________ 21-22] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / सत्तास्थानानि वाच्यानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिश्च / एतानि च प्रागिवावगन्तव्यानि / ___ "तेरनवबंधगेसु पंचेव ठाणाई" त्रयोदशबन्धकेषु नवबन्धकेषु च प्रत्येकं पञ्च पञ्च सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिश्च / तत्र त्रयोदशबन्धका देशविरताः, ते च द्विधा-तिर्यञ्चो मनुष्याश्च / तत्र ये तिर्यञ्चस्तेषां चतुर्ध्वप्युदयस्थानेषु द्वे एव सत्तास्थाने, तद्यथा-अष्टाविंशतिश्चतुर्विंशतिश्च / तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा / तत्रौपशमिकसम्यग्दृष्टीनां प्रथमसम्यक्त्वोत्पादकाले, तथाहि—तदानीमन्तरकरणाद्धायां वर्तमान औपशमिकसम्यग्दृष्टिः कश्चिद् देशविरतिमपि प्रतिपद्यते, कश्चिद् मनुष्यः पुनः सर्वविरतिमपि / तदुक्तं शतकबृहचूर्णी उँवसमसम्मद्दिट्टी अंतरकरणे ठिओ कोइ देसविरइं कोइ पमत्तापमत्तभावं पि गच्छइ, सासायणो पुण न किमवि लहइ / ( ) इति / . वेदकसम्यग्दृष्टीनां त्वष्टाविंशतिः सुप्रतीता। चतुर्विंशतिः पुनरनन्तानुबन्धिषु विसंयोजितेषु वेदकसम्यग्दृष्टीनां वेदितव्या / शेषाणि तु सर्वाण्यपि त्रयोविंशत्यादीनि सत्तास्थानानि तिरश्चां न सम्भवन्ति, तानि हि क्षायिकसम्यक्त्वमुत्पादयतः प्राप्यन्ते, न च तिर्यञ्चः क्षायिकसम्यक्त्वमुत्पादयन्ति, किन्तु मनुष्या एव / अथ मनुष्याः क्षायिकसम्यक्त्वमुत्पाद्य यदा तिर्यक्षुत्पद्यन्ते तदा तिरश्चोऽप्येकविंशतिः प्राप्यत एव, तत् कथमुच्यते शेषाणि त्रयोविंशत्यादीनि सर्वाण्यपि न सम्भन्ति ? इति तद् . अयुक्तम्, यतः क्षायिकसम्यग्दृष्टिस्तिर्यक्षु न सङ्ख्येयवर्षायुष्केषु मध्ये समुत्पद्यते, किन्त्वसङ्ख्येयवर्षायुष्केषु, न च तत्र देशविरतिः, तदभावाच्च न त्रयोदशबन्धकत्वम् / अत्र त्रयोदशबन्धे सत्तास्थानानि चिन्त्यमानानि वर्तन्ते तत एकविंशतिरपि त्रयोदशबन्धे तिर्यक्षु न प्राप्यते / तदुक्तं चूर्णी एगवीसा तिरिक्खेसु संजयाऽसंजएसु न संभवइ / कहं ? भण्णइ–संखेज्जवासाउएसु तिरिक्खेसु खाइगसम्मद्दिट्टी न उववजइ, असंखेजवासाउएसु उववज्जेज्जा, तस्स देसविरई नत्थि / ( ) इति / ये च मनुष्या देशविरतास्तेषां पञ्चकोदये त्रीणि सत्तास्थानानि / तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिश्च / षट्कोदये सप्तोदये च प्रत्येकं पञ्चापि सत्तास्थानानि / अष्टकोदये . 1 सं० 1 त० म० छा० °णाणि" // 2 उपशमसम्यग्दृष्टिरन्तरकरणे स्थितः कोऽपि देशविरतिं कोऽपि प्रमत्ताप्रमत्तभावमपि गच्छति, सासादनः पुनर्न किमपि लभते // 3 सं० 1 त० म० छा० वन्तीति // 4 सं० मुद्रि० अथ च // 5 एकविंशतिः तिर्यक्षु संयतासंयतेषु न सम्भवति, कथम् ? भण्यते-संख्येयवर्षायुष्केषु तिर्यक्षु क्षायिकसम्यग्दृष्टिर्न उपपद्यते, असंख्येयवर्षायुष्केषु उपपद्यत, तस्य देशविरतिर्नास्ति / /