________________ 172 मलयगिरिमहर्षिविनिर्मितविकृत्युपेतं [गाथाः उपशमश्रेणिप्रतिपाते तु उपशान्तानन्तानुबन्धिनामष्टाविंशतिः, उद्वलितानन्तानुबन्धिनां तु चतुविंशतिः / क्षायिकसम्यग्दृष्टीनां त्वेकविंशतिरेव, क्षायिकं हि सम्यक्त्वं सप्तकक्षये भवति, सप्तकक्षये च जन्तुरेकविंशतिसत्कर्मेति / सर्वसङ्ख्यया षडुदये त्रीणि सत्तास्थानानि, तद्यथा—अष्टाविंशतिः चतुर्विंशतिः एकविंशतिश्चेति / सप्तोदये मिश्रदृष्टीनां त्रीणि सत्तास्थानानि, तद्यथाअष्टाविंशतिः सप्तविंशतिः चतुर्विंशतिश्च / तत्र योऽष्टाविंशतिसत्कर्मा सन् सम्यग्मिथ्यात्वं प्रतिपद्यते तस्याष्टाविंशतिः / येन पुनर्मिथ्यादृष्टिना सता प्रथमं सम्यक्त्वमुद्वलितं सम्यग्मिथ्यात्वं च नाद्याप्युद्वलितुमारभ्यते अत्रान्तरे परिणामवशेन मिथ्यात्वाद् विनिवृत्य सम्यग्मिथ्यात्वं प्रतिपद्यते तस्य सप्तविंशतिः / यः पुनः पूर्वं सम्यग्दृष्टिः सन् अनन्तानुबन्धिनो विसंयोज्य पश्चात् परिणामवशतः सम्यग्मिथ्यात्वं प्रतिपद्यते तस्य चतुर्विंशतिः, सा च चतसृष्वपि गतिषु प्राप्यते, यतश्चतुर्गतिका अपि सम्यग्दृष्टयोऽनन्तानुबन्धिनो विसंयोजयन्ति / तदुक्तं कर्मप्रकृत्यां चउगइया पज्जत्ता, तिन्नि वि संजोयणे विजोयंति / करणेहिं तीहिं सहिया, णंतरकरणं उवसमो वा // (गा० 343) .. अत्र “तिन्नि वि" त्ति अविरता देशविरताः सर्वविरता वा यथायोगमिति / अनन्तानुबन्धिविसंयोजनानन्तरं च केचित् परिणामवशतः सम्यग्मिथ्यात्वमपि प्रतिपद्यन्ते, ततश्चतसृष्वपि गतिषु सम्यग्मिथ्यादृष्टीनां चतुर्विंशतिः सम्भवति / अविरतसम्यग्दृष्टीनां तु सप्तोदये पञ्च सत्तास्थानानि, तद्यथा--अष्टाविंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिश्च / तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा / चतुर्विंशतिरप्युभयेषाम्, नवरमनन्तानुबन्धिविसंयोजनानन्तरं सा अवगन्तव्या / त्रयोविंशतिविंशतिश्च वेदकसम्यग्दृष्टीनामेव / तथाहि-कश्चिद् मनुष्यो वर्षाष्टकस्योपरि वर्तमानो वैदकसम्यग्दृष्टिः क्षपणायाभ्युद्यतस्तस्यानन्तानुबन्धिषु मिथ्यात्वे च क्षपिते सति त्रयोविंशतिः, तस्यैव च सम्यग्मिथ्यात्वे क्षपिते द्वाविंशतिः / स च द्वाविंशतिसत्कर्मा सम्यक्त्वं क्षपयन् तच्चरमग्रासे वर्तमानः कश्चित् पूर्वबद्धायुष्कः कालमपि करोति, कालं च कृत्वा चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते / तदुक्तम् पैट्ठवगो उ मणूसो, निट्ठवगो चउसु वि गईसु / ( ) ततो द्वाविंशतिश्चतसृष्वपि गतिषु प्राप्यते / एकविंशतिस्तु क्षायिकसम्यग्दृष्टीनामेव, यतः सप्तकक्षये क्षायिकसम्यग्दृष्टयः, सप्तके च क्षीणे सत्तायामेकविंशतिरिति / एवमष्टोदयेऽपि मिश्रदृष्टीनामविरतसम्यग्दृष्टीनां चोक्तरूपाण्यन्यूनानतिरिक्तानि सत्तास्थानानि भावनीयानि / एवं नवोदयेऽपि, नवरं नवोदयोऽविरतानां वेदकसम्यग्दृष्टीनामेव सम्भवतीति कृत्वा तत्र चत्वारि 1 सं०१ त० °मश्रेण्यां तूप // 2 चतुर्गतिकाः पर्याप्ताः त्रयोऽपि संयोजनान् वियोजयन्ति / करणैस्त्रिभिः सहिता नान्तरकरणं उपशमो वा // 3 सं० त० °यामभ्यु० // 4 प्रस्थापकस्तु मनुष्यो निष्ठापकश्चतसृष्वपि गतिषु // 5 सं० छा० म. नातिरि° //