________________ 20-22] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 171 तदेवं बन्धस्थानानामुदयस्थानैः सह परस्परसंवेध उक्तः / सम्प्रति सत्तास्थानैः सह तमभिधित्सुराह तिन्नेव य बावीसे, इगवीसे अट्ठवीस सत्तरसे। छ चेव तेरनवबंधगेसु पंचेव ठाणाहं // 21 // पंचविहचउंविहेसुं, छ छक्क सेसेसु जाण पंचेव / पत्तेयं पत्तेयं, चत्तारि य बंधवोच्छेए // 22 // 'द्वाविंशतौ' द्वाविंशतिबन्धे त्रीणि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः सप्तविंशतिः षड्विंशतिश्च / तथाहि-द्वाविंशतिबन्धो मिथ्यादृष्टेः, मिथ्यादृष्टेश्चत्वार्युदयस्थानानि, तद्यथा-सप्त अष्टौ नव दश / तत्र सप्तोदयेऽष्टाविंशतिरेकं सत्तास्थानम्, यतः सप्तोदयोऽनन्तानुबन्ध्युदयाभावे भवति, अनन्तानुबन्ध्युदयरहितश्च येन पूर्व सम्यग्दृष्टिना सता अनन्तानुबन्धिन उद्वलिताः ततः कालान्तरेण परिणामवशतो मिथ्यात्वं गतेन भूयोऽपि मिथ्यात्वप्रत्ययेन तेऽनन्तानुबन्धिनो बन्द्धमारभ्यन्ते स एव मिथ्यादृष्टिबन्धावलिकामानं कालं यावदनन्तानुबन्ध्युदयरहितः प्राप्यते नान्यः, स चाष्टाविंशतिसत्कर्मा इति अष्टाविंशतिरेवैकं सप्तोदये सत्तास्थानम् / अष्टोदये त्रीण्यपि सत्तास्थानानि, यतोऽष्टोदयो द्विधा-अनन्तानुबन्ध्युदयरहितोऽनन्तानुबन्ध्युदयसहितश्च / तत्र योऽनन्तानुबन्ध्युदयरहितोऽष्टोदयस्तत्र प्रागुक्तयुक्तेरष्टाविंशतिरेव सत्तास्थानम् / अनन्तानुबन्ध्युदयसहिते तु त्रीण्यपि सत्तास्थानानि-तत्र यावद् नाद्यापि सम्यक्त्वमुद्वलयति तावदष्टाविंशतिः, सम्यक्त्वे उद्वलिते सप्तविंशतिः, सम्यग्मिथ्यात्वेऽप्युद्वलिते षड्विंशतिः, अनादिमिथ्यादृष्टेर्वा षड्विंशतिः / एवं नवोदयेऽप्यनन्तानुबन्ध्युदयरहितेऽष्टाविंशतिरेव, अनन्तानुबन्ध्युदयसहिते तु त्रीण्यपि / दशोदयस्त्वनन्तानुबन्ध्युदयसहित एव भवति, ततस्तत्रापि त्रीणि सत्तास्थानानि भावनीयानि / "इगवीसे अट्टवीस" ति 'एकविंशतौ' एकविंशतिबन्धेऽष्टाविंशतिरेकं सत्तास्थानम् / एकविंशतिबन्धो हि सासादनसम्यग्दृष्टेर्भवति, सासादनत्वं च जीवस्यौपशमिकसम्यक्त्वात् प्रच्यवमानस्योपजायते, सम्यक्त्वगुणेन च मिथ्यात्वं त्रिधा कृतम् , तद्यथा—सम्यक्त्वं मिश्रं मिथ्यात्वं च, ततो दर्शनत्रिकस्यापि सत्कर्मतया प्राप्यमाणत्वाद् एकविंशतिबन्धे त्रिष्वप्युदयस्थानेष्वष्टाविंशतिरेकं सत्तास्थानं भवति / “सत्तरसे छ च्चेव" सप्तदशबन्धे षट् सत्तास्थानानि, तद्यथा-अष्टाविंशतिः सप्तविंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिश्च / सप्तदशबन्धो हि द्वयानां भवति, तद्यथासम्यग्मिथ्यादृष्टीनामविरतसम्यग्दृष्टीनां च / तत्र सम्यग्मिथ्यादृष्टीनां त्रीण्युदयस्थानानि, तद्यथासप्त अष्टौ नव / अविरतसम्यग्दृष्टीनां चत्वारि, तद्यथा-षट् सप्त अष्टौ नव / तत्र षड्डुदयोऽविरतानामौपशमिकसम्यग्दृष्टीनां क्षायिकसम्यग्दृष्टीनां वा प्राप्यते / तत्रौपशमिकसम्यग्दृष्टीनां द्वे सत्तास्थाने, तद्यथा-अष्टाविंशतिः चतुर्विशतिश्च / तत्राष्टाविंशतिः प्रथमसम्यक्त्वोत्पादकाले, . 1 छा० मुद्रि० °उव्विहेसुः॥