________________ 170 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [ गाथाः मोहिताः संसारिणो जीवा विज्ञेयाः, एतावत्सङ्ख्याभिः कर्मप्रकृतिभिर्यथायोग मोहिताः संसारिणो जीवा ज्ञातव्या इत्यर्थः / ___ अथ कथमेकसप्तत्यधिकैकोनसप्ततिसङ्ख्यानि पदानां शतानि भवन्ति ? उच्यते—इह दशोदये दशपदानि, दशप्रकृतय उदयमागता इत्यर्थः, एवं नवोदयादिष्वपि नवादीनि पदानि भावनीयानि / ततो दशोदय एको दशभिर्गुण्यते, नवोदयाश्च षड् नवभिः, अष्टोदयाश्च एकादश अष्टभिः, सप्तोदया दश सप्तभिः, षडुदयाः सप्त षड्भिः, पञ्चकोदयाश्चत्वारः पञ्चभिः, चतुरुदय एकश्चतुर्भिः, द्विकोदय एको द्वाभ्याम् ; गुणयित्वा चैते सर्वेऽपि एकत्र मील्यन्ते ततो जाते द्वे शते नवत्यधिके 290 / एतेषु च प्रत्येकमेकैका चतुर्विंशतिर्भङ्गकानां प्राप्यत इति भूयश्चतुर्विंशत्या गुण्यन्ते, गुणितेषु च सत्सु एकोदयभङ्गपदान्येकादश प्रक्षिप्यन्ते ततो यथोक्तसङ्ख्यान्येव पदानां शतानि भवन्ति / इयं चोदयस्थानसङ्ख्या पदसङ्ख्या च ये मतान्तरेण चतुर्विधबन्धसङ्क्रमकाले द्विकोदये द्वादश भङ्गा उक्तास्तानधिकृत्य वेदितव्याः // 19 // यदा पुनरेते नाधिक्रियन्ते तदा इयमुदयस्थानपदसङ्ख्या नवतेसीयसएहिं, उदयविगप्पेहि मोहिया जीवा / अउणत्तरिसीयाला, पयविंदसएहि विन्नेया // 20 // उदयविकल्पैस्त्र्यशीत्यधिकनवशतसङ्ख्यैः 983 तथा दशोदयादिरूपवृन्दान्तर्गतानां पदानां शतैः सप्तचत्वारिंशदधिकैकोनसप्ततिसङ्ख्यैः 6947 यथायोगं सर्वेऽपि संसारिणो जीवाः ‘मोहिताः' मोहमापादिता विज्ञेयाः / तत्रोदयस्थानेषु पूर्वोक्तप्रकारेण परिसङ्ख्यायमानेषु ये मतान्तरेणोक्ताश्चतुर्विधबन्धस्थाने द्विकोदये द्वादश भङ्गास्तेऽपसार्यन्ते, ततो नव शतानि व्यशीत्यधिकानि 983 उदयविकल्पानां भवन्ति / पदेषु च परिसङ्ख्यायमानेषु मतान्तरेणोक्तद्वादशभङ्गगतानि चतुर्विंशतिपदानि अपनीयन्ते, ततो यथोक्तपदानां सङ्ख्या भवति / इह दशादय उदयास्तद्भङ्गाश्च जघन्यत एकसामयिका उत्कर्षत आन्तर्मोहूर्तिकाः, तथाहि-चतुरादिषु दशोदयपर्यन्तेष्ववश्यमन्यतमो वेदोऽन्यतरद् युगलं विद्यते, वेदयुगलयोश्च मध्येऽन्यतरदवश्यं मुहूर्तादारतः परावर्तते, तदुक्तं पञ्चसङ्ग्रहमूलटीकायाम्__ वेदेन युगलेन वा अवश्यं मुहूर्तादारतः परावर्तितव्यम् (पत्र 217 ) इति / तत उत्कर्षतः चतुष्कोदयादयः सर्वेऽप्यान्तर्मोहूर्तिकाः। द्विकौदयैककोदयाश्च आन्तमौहूर्तिकाः सुप्रतीता एव / तथा यदा विवक्षिते उदये भङ्गे वा एकं समयं वर्तित्वा द्वितीये समये गुणस्थानान्तरं गच्छति तदा अवश्यं बन्धस्थानभेदाद् गुणस्थानभेदात् स्वरूपतो वा भिन्नमुदयान्तरं वा भङ्गान्तरं वा यातीति सर्वेऽप्युदया भङ्गाश्च जघन्यत एकसामयिकाः // 20 // 1 सं० त० छा० अत्र // 2 सं०१ त० यश्च ए° // 3 सं० 1 त० स्थानेषु द्वि०॥ 4 सं० छा० सरोक्तद्वा // 5 सं० 1 छा० गच्छन्ति / / 6 सं०१ म० यान्तीति / /