Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

Previous | Next

Page 245
________________ 180 मलयगिरिमहर्षिविनिर्मितविवृत्युपेत [गाथाः सम्प्रति कस्मिन् बन्धस्थाने कति भङ्गाः सर्वसङ्ख्यया प्राप्यन्ते ? इति चिन्तायां तन्निरूपणार्थमाह चउ पणवीसा सोलस, नव वाणउँईसया य अडयाला। एयालुत्तर छायालसया एकेक बंधविही // 25 // त्रयोविंशत्यादिषु बन्धस्थानेषु यथासङ्ख्यं 'चतुरादिसङ्ख्या बन्धविधयः' बन्धप्रकाराः-बन्धभङ्गा वेदितव्याः / तत्र त्रयोविंशतिबन्धस्थाने भङ्गाश्चत्वारः, ते चैकेन्द्रियप्रायोग्यमेव बनतोऽवसेयाः, अन्यत्र त्रयोविंशतिबन्धस्थानस्याप्राप्यमाणत्वात् / पञ्चविंशतिबन्धस्थाने पञ्चविंशतिर्भङ्गाःतत्रैकेन्द्रियप्रायोग्यां पञ्चविंशति बन्धतो विंशतिः, अपर्याप्तकद्वि-त्रि-चतुरिन्द्रिय-तिर्यक्पञ्चेन्द्रियमनुष्यप्रायोग्यां च बध्नतामेकैक इति सर्वसङ्ख्यया पञ्चविंशतिः / षड्विंशतिबन्धस्थाने भनाः षोडश, ते चैकेन्द्रियप्रायोग्यमेव बनतोऽवसेयाः, अन्यत्र षड्विंशतिबन्धस्थानस्याप्राप्यमाणत्वात्। अष्टाविंशतिबन्धस्थाने भङ्गा नव-तत्र देवगतिप्रायोग्यामष्टाविंशति बनतोऽष्टौ, नरकगतिप्रायोग्यां तु बधत एक इति / एकोनत्रिंशद्वन्धस्थाने भङ्गा अष्टचत्वारिंशदधिकानि द्विनवतिशतानि ९२४८-तत्र तिर्यक्पञ्चेन्द्रियप्रायोग्यामेकोनत्रिंशतं बनतोऽष्टाधिकानि षट्चत्वारिंशच्छतानि 4608, मनुष्यगतिप्रायोग्यामपि बन्धतोऽष्टाधिकानि षट्चत्वारिंशच्छतानि 4608, द्वि-त्रि-चतुरिन्द्रियप्रायोग्यां देवगतिप्रायोग्यां च तीर्थकरसहितां बनतां प्रत्येकमष्टावष्टाविति / त्रिंशति बन्धस्थाने भक्ता एकचत्वारिंशदधिकानि षट्चत्वारिंशच्छतानि ४६४१--तत्र तिर्य पञ्चेन्द्रियप्रायोग्यां त्रिंशतं बनतोऽष्टाधिकानि षट्चत्वारिंशच्छतानि 4608, द्वि-त्रि-चतुरिन्द्रियप्रायोग्यां मनुष्यगतिप्रायोग्यां च बनतां प्रत्येकमष्टावष्टौ, देवगतिप्रायोग्यामाहारकसहितां त्रिंशतं बध्नत एक इति / तथा एकत्रिंशति बन्धस्थाने एकः / एकविधे चैकः / सर्वसङ्ख्यया सर्वबन्धस्थानेषु भङ्गास्त्रयोदश सहस्राणि नव शतानि पञ्चचत्वारिंशदधिकानि 13945 इति // 25 // तदेवमुक्तानि सप्रभेदं बन्धस्थानानि / सम्प्रत्युदयस्थानप्रतिपादनार्थमाह वीसिगवीसा चउवीसगाई एगाहिया उ इगतीसा। उपयट्ठाणाणि भवे, नव अट्ट य हुंति नामस्स // 26 // 'नामः' नामकर्मण उदयस्थानानि द्वादश / तद्यथा-विंशतिः एकविंशतिः; चतुर्विशत्यादयः 'एकाधिकाः' एकैकाधिकास्तावद् वक्तव्या यावदेकत्रिंशत् , तद्यथा-चतुर्विशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् ; तथा नव अष्टौ च / एतानि चैकेन्द्रियाधपेक्षया नानाप्रकाराणीति तानाश्रित्य सप्रपञ्चमुपदय॑न्ते तत्रैकेन्द्रियाणामुदयस्थानानि पञ्च, तद्यथा-एकविंशतिः चतुर्विशतिः पञ्चविंशतिः षड्वि. 1 गाथेयं सप्ततिकाभाष्ये अशीतितमी // 2 सं० सं० 1 छा० °उइयस° // 3 मुद्रि० °नतो मिथ्यादृष्टेविश° // 4 छा० मुद्रि० ग्यामेव // 5 मुद्रि० क एवेति // गाथेयं सप्ततिकाभाष्ये अष्टाशीतितमी / / 7 सप्ततिकाभाष्ये तु- इगतीसगत एमहिया //

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334