Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

Previous | Next

Page 214
________________ चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 149 आयुषश्चतस्र उत्तरप्रकृतयः, तद्यथा-नरकायुस्तिर्यगायुर्मनुष्यायुर्देवायुश्च // नानो द्विचत्वारिंशदुत्तरप्रकृतयः, तद्यथा-तिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम बन्धननाम सङ्घातनाम संहनननाम संस्थाननाम वर्णनाम गन्धनाम रसनाम स्पर्शनाम आनुपूर्वीनाम विहायोगतिनाम सनाम स्थावरनाम बादरनाम सूक्ष्मनाम पर्याप्तनाम अपर्याप्तनाम प्रत्येकनाम साधारणनाम स्थिरनाम अस्थिरनाम शुभनाम अशुभनाम सुस्वरनाम दुःस्वरनाम सुभगनाम दुर्भगनाम आदेयनाम अनादेयनाम यशःकीर्तिनाम अयशःकीर्तिनाम अगुरुलघुनाम उपघातनाम पराघातनाम उच्छासनाम आतपनाम उद्योतनाम निर्माणनाम तीर्थकरनाम चेति। तत्र गम्यते-तथाविधकर्मसचिवैर्जीवैः प्राप्यत इति गतिः-नारकत्वादिपर्यायपरिणतिः / सा चतुर्धा, तद्यथा-नरकगतिः तिर्यग्गतिः मनुष्यगतिः देवगतिश्च / तद्विपाकवेद्या कर्मप्रकृतिरपि गतिश्चतुर्धा / तथा एकेन्द्रियादीनामेकेन्द्रियत्वादिरूपसमानपरिणतिलक्षणमेकेन्द्रियादिशब्दव्यपदेशभाग् यत् सामान्यं सा जातिः, तद्विपाकवेद्या कर्मप्रकृतिरपि जातिः / इदमत्र तात्पर्य द्रव्यरूपमिन्द्रियमङ्गोपाङ्गेन्द्रियपर्याप्तिनामकर्मसामर्थ्यात् सिद्धम्, भावरूपं तु स्पर्शनादीन्द्रियावरणक्षयोपशमसामर्थ्यात् "क्षायोपशमिकानीन्द्रियाणि" ( ) इति वचनात् / यत् पुनरेकेन्द्रियादिशब्दप्रवृत्तिनिबन्धनं तथारूपसमानपरिणतिलक्षणं सामान्यं तदव्यभिचारसाध्यत्वाद् जातिनामसाध्यम् / उक्तं च अव्यभिचारिणा सादृश्येन एकीकृतोऽर्थात्मा जातिः तन्निमित्तं जातिनाम / ( ) तञ्च पञ्चधा, तद्यथा—एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम त्रीन्द्रियजातिनाम चतुरिन्द्रि• 'यजातिनाम पञ्चेन्द्रियजातिनाम / तथा शीर्यत इति शरीरम्, तत् पञ्चधा-औदारिकं वैक्रियम् आहारकं तैजसं कार्मणं च / तत्र उदारं-प्रधानम्, प्राधान्यं चास्य तीर्थकरगणधरशरीरापेक्षया, ततोऽन्यस्यानुत्तरसुरशरीरस्यापि अनन्तगुणहीनत्वात् , यद्वा उदारं-सातिरेकयोजनसहस्रमानत्वात् शेषशरीरापेक्षया बृहत्प्रमाणम्, बृहत्ता चास्य वैक्रियं प्रति भवधारणीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथा उत्तरवैक्रिय योजनलक्षमानमपि लभ्यते, उदारमेव औदारिकम्, विनयादिपाठादिकण , तन्निबन्धनं नाम औदारिकनाम; यदुदयवशाद् औदारिकशरीरप्रायोग्यान् पुद्गलानादाय औदारिकशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशैः सहान्योऽन्यानुगमरूपतया सम्बन्धयति तद् औदारिकशरीरनामेत्यर्थः 1 / एवं शेषशरीरनामस्वपि भावना कार्या / तथा विविधा क्रिया विक्रिया, तस्यां भवं वैक्रियम्, तथाहि-तदेकं भूत्वाऽनेकं भवति अनेकं भूत्वा एकम्, अणु भूत्वा महद् भवति महच्च भूत्वाऽणु, तथा खचरं भूत्वा भूमिचरं भवति भूमिचरं भूत्वा खचरम्, तथा अदृश्यं भूत्वा दृश्यं भवति दृश्यं भूत्वाऽदृश्यमित्यादि / तच्च द्विधा-औपपातिकं लब्धिप्रत्ययं च / तत्रौपपातिकं उपपातजन्मनिमित्तम् , तच्च देव-नारकाणाम् / लब्धिप्रत्ययं तिर्यङ् 1 सं० सं० 1 म० त० °मान्यं तदनन्यसाध्य° //

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334