Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

Previous | Next

Page 227
________________ 162 मलयगिरिमहर्षिविनिर्मितबिवृत्युपेतं [गाथाः दश नव पञ्च चतस्रः तिस्रः द्वे एका च / तत्र सम्यक्त्व-सम्यग्मिथ्यात्वे बन्धे न भवतः, न च त्रयाणां वेदानां युगपद् बन्धः किन्त्वेककालमेकस्यैव, हास्य-रतियुगला-ऽरति-शोकयुगले अपि न, युगपद् बन्धमायातः किन्त्वेकतरमेव युगलम् , ततो मोहनीयस्योत्कर्षतः प्रभूतप्रकृतिबन्धो द्वाविंशतिः, सा च मिथ्यादृष्ठिगुणस्थानके प्राप्यते / ततः सासादनसम्यग्दृष्टिगुणस्थानके मिथ्यात्वस्य बन्धाभावाद् एकविंशतिः, यद्यप्यत्र नपुंसकवेदस्यापि बन्धो न भवति तथापि तत्स्थाने स्त्रीवेदः पुरुषवेदो वा प्रक्षिप्यत इत्येकविंशतेरेव बन्धः / ततो मिश्रा-ऽविरतसम्यग्दृष्टिगुणस्थानकयोरनन्तानुबन्धिनामपि बन्धाभावात् सप्तदश / ततोऽपि देशविरतिगुणस्थानके प्रत्याख्यानकषायाणां बन्धाभावात् त्रयोदश / ततोऽपि प्रमत्ता-अमत्ता-ऽपूर्वकरणेषु प्रत्याख्यानावैरणानां बन्धाभावाद् नव, यद्यपि अरति-शोकरूपं युगलं प्रमत्तगुणस्थानके एव व्यवच्छिन्नं तथापि तत्स्थाने हास्य-रतियुगलं प्रक्षिप्यते इत्यप्रमत्ता- पूर्वकरणयोर्नवकबन्धो न विरुध्यते। ततो हास्यरति-भय-जुगुप्सा अपूर्वकरणचरमसमये बन्धमाश्रित्य व्यवच्छिद्यन्ते इति अनिवृत्तिबादरसम्परायगुणस्थानके प्रथमभागे पञ्चानां बन्धः / द्वितीयभागे पुरुषवेदस्य बन्धाभावात् चतसृणां बन्धः / तृतीयभागे संज्वलनक्रोधस्य बन्धाभावात् तिसृणों बन्धः / चतुर्थभागे संज्वलनमानस्य बन्धाभावाद् द्रुयोर्बन्धः / पञ्चमभागे संज्वलनमायाया अपि बन्धाभावादेकस्याः संज्वलनलोभप्रकृतेर्बन्धः / ततः परं बादरसम्परायोदयाभावात् तस्या अपि न बन्धः // 10 // तदेवमुक्तानि मोहनीयस्य बन्धस्थानानि / सम्प्रत्युदयस्थानान्यभिधित्सुराह ऐक व दो व चउरो, एत्तो एक्काहिया दसुक्कोसा। ओहेण मोहणिजे, उदयट्ठाणा नव हवंति // 11 // 'ओघेन' सामान्येन मोहँनीये उदयस्थानानि नव भवन्ति, तद्यथा, एकं द्वे चत्वारि 'अतः ' चतुष्कादूर्ध्व त्वेकाधिका उदयविकल्पास्तावदवगन्तव्या यावदुत्कर्षतो ' दश' दशकमुदयस्थानं भवतीत्यर्थः 1-2-4-5-6-7-8-9-10 / एतानि चानिवृत्तिबादरसम्परायगुणस्थानकादारभ्य पश्चानुपूर्व्या किञ्चिद्भाव्यन्ते तत्र चतुर्णा संज्वलनानामन्यतमस्योदये एकमुदयस्थानम्, तदेव वेदत्रयान्यतमवेदोदयप्रक्षेपे द्विकम् , तत्रापि हास्य-रतिरूपयुगलप्रक्षेपे चतुष्कम्, तत्रैव भयप्रक्षेपात् पञ्चकम्, जुगुप्साप्रक्षेपात् षट्कम्, तत्रैव चतुर्णां प्रत्याख्यानावरणकषायाणामन्यतमस्य प्रक्षेपे सप्तकम्, तत्रैव चाप्रत्याख्यानावरणकषायाणामन्यतमस्य प्रक्षेपेऽष्टकम् , तत्रैव चतुर्णामनन्तानुबन्धिकषायाणामन्यतमस्य प्रक्षेपे नवकम् , तत्रैव मिथ्यात्वप्रक्षेपे दशकम् / एतच्च सामान्येनोक्तम् , विशेष तस्त्वने सूत्रकृदेव सप्रपञ्चं कथयिष्यतीति तत्रैव भावयिष्यते // 11 // तदेवमुक्तान्युदयस्थानानि / सम्प्रति सत्तास्थानानि प्रतिपिपादयिषुराह 1 स० त० व। ततो / 2 सं० 1 त० वरणबन्धा // 3 मुद्रि० विना-°णाम्, चतु // 4 मुद्रि० विना-योः, पञ्च° // 5 गाथेयं सप्ततिकाभाष्ये पञ्चविंशतितमी // 6 म० उदये ठाणाणि नव हुँति / सं. 1 तक यहाणाणि नव हुँति // 7 सं०१त. हनीयस्य // 8 सं० 1 सं० त०म० ख्यानकषा //

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334