Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text ________________ 170 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [ गाथाः मोहिताः संसारिणो जीवा विज्ञेयाः, एतावत्सङ्ख्याभिः कर्मप्रकृतिभिर्यथायोग मोहिताः संसारिणो जीवा ज्ञातव्या इत्यर्थः / ___ अथ कथमेकसप्तत्यधिकैकोनसप्ततिसङ्ख्यानि पदानां शतानि भवन्ति ? उच्यते—इह दशोदये दशपदानि, दशप्रकृतय उदयमागता इत्यर्थः, एवं नवोदयादिष्वपि नवादीनि पदानि भावनीयानि / ततो दशोदय एको दशभिर्गुण्यते, नवोदयाश्च षड् नवभिः, अष्टोदयाश्च एकादश अष्टभिः, सप्तोदया दश सप्तभिः, षडुदयाः सप्त षड्भिः, पञ्चकोदयाश्चत्वारः पञ्चभिः, चतुरुदय एकश्चतुर्भिः, द्विकोदय एको द्वाभ्याम् ; गुणयित्वा चैते सर्वेऽपि एकत्र मील्यन्ते ततो जाते द्वे शते नवत्यधिके 290 / एतेषु च प्रत्येकमेकैका चतुर्विंशतिर्भङ्गकानां प्राप्यत इति भूयश्चतुर्विंशत्या गुण्यन्ते, गुणितेषु च सत्सु एकोदयभङ्गपदान्येकादश प्रक्षिप्यन्ते ततो यथोक्तसङ्ख्यान्येव पदानां शतानि भवन्ति / इयं चोदयस्थानसङ्ख्या पदसङ्ख्या च ये मतान्तरेण चतुर्विधबन्धसङ्क्रमकाले द्विकोदये द्वादश भङ्गा उक्तास्तानधिकृत्य वेदितव्याः // 19 // यदा पुनरेते नाधिक्रियन्ते तदा इयमुदयस्थानपदसङ्ख्या नवतेसीयसएहिं, उदयविगप्पेहि मोहिया जीवा / अउणत्तरिसीयाला, पयविंदसएहि विन्नेया // 20 // उदयविकल्पैस्त्र्यशीत्यधिकनवशतसङ्ख्यैः 983 तथा दशोदयादिरूपवृन्दान्तर्गतानां पदानां शतैः सप्तचत्वारिंशदधिकैकोनसप्ततिसङ्ख्यैः 6947 यथायोगं सर्वेऽपि संसारिणो जीवाः ‘मोहिताः' मोहमापादिता विज्ञेयाः / तत्रोदयस्थानेषु पूर्वोक्तप्रकारेण परिसङ्ख्यायमानेषु ये मतान्तरेणोक्ताश्चतुर्विधबन्धस्थाने द्विकोदये द्वादश भङ्गास्तेऽपसार्यन्ते, ततो नव शतानि व्यशीत्यधिकानि 983 उदयविकल्पानां भवन्ति / पदेषु च परिसङ्ख्यायमानेषु मतान्तरेणोक्तद्वादशभङ्गगतानि चतुर्विंशतिपदानि अपनीयन्ते, ततो यथोक्तपदानां सङ्ख्या भवति / इह दशादय उदयास्तद्भङ्गाश्च जघन्यत एकसामयिका उत्कर्षत आन्तर्मोहूर्तिकाः, तथाहि-चतुरादिषु दशोदयपर्यन्तेष्ववश्यमन्यतमो वेदोऽन्यतरद् युगलं विद्यते, वेदयुगलयोश्च मध्येऽन्यतरदवश्यं मुहूर्तादारतः परावर्तते, तदुक्तं पञ्चसङ्ग्रहमूलटीकायाम्__ वेदेन युगलेन वा अवश्यं मुहूर्तादारतः परावर्तितव्यम् (पत्र 217 ) इति / तत उत्कर्षतः चतुष्कोदयादयः सर्वेऽप्यान्तर्मोहूर्तिकाः। द्विकौदयैककोदयाश्च आन्तमौहूर्तिकाः सुप्रतीता एव / तथा यदा विवक्षिते उदये भङ्गे वा एकं समयं वर्तित्वा द्वितीये समये गुणस्थानान्तरं गच्छति तदा अवश्यं बन्धस्थानभेदाद् गुणस्थानभेदात् स्वरूपतो वा भिन्नमुदयान्तरं वा भङ्गान्तरं वा यातीति सर्वेऽप्युदया भङ्गाश्च जघन्यत एकसामयिकाः // 20 // 1 सं० त० छा० अत्र // 2 सं०१ त० यश्च ए° // 3 सं० 1 त० स्थानेषु द्वि०॥ 4 सं० छा० सरोक्तद्वा // 5 सं० 1 छा० गच्छन्ति / / 6 सं०१ म० यान्तीति / /
Loading... Page Navigation 1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334