Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
________________ 18-19] 169 चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 169 एक्कग छक्केकारस, दस सत्त चउक्क एकगा चेव / एए चउवीसगया, चउवीस दुगेक्कमिक्कारा // 18 // . इह दशादीन्युदयस्थानान्यधिकृत्य यथासङ्ख्यं सञ्जयापदयोजना कर्तव्या, सा चैवम्--दशोदये एका चतुर्विशतिः। नवोदये षट् , तद्यथा-द्वाविंशतिबन्धे तिस्रः, एकविंशतिबन्धे मिश्राऽविरतसम्यग्दृष्टिसप्तदशबन्धे च प्रत्येकमेकैका / अष्टोदये एकादश-तत्र द्वाविंशतिबन्धे अविरतसम्यग्दृष्टि सप्तदशबन्धे च प्रत्येकं तिस्रः तिस्रः, एकविंशतिबन्धे मिश्रसप्तदशबन्धे च प्रत्येकं द्वे द्वे, त्रयोदशबन्धे चैका / तथा सप्तोदये दश--तत्र द्वाविंशतिबन्धे एकविंशतिबन्धे मिश्रसप्तदशबन्धे च प्रत्येकमेकैका, अविरतसम्यग्दृष्टिसप्तदशबन्धे त्रयोदशबन्धे च प्रत्येकं तिस्रः तिस्रः, नवकबन्धे त्वेका / तथा षडदये सप्त--तत्राविरतसम्यग्दृष्टि सप्तदशबन्धे एका, त्रयोदशबन्धे नवकबन्धे च प्रत्येकं तिस्रः तिस्रः / तथा पञ्चकोदये चतस्रः-तत्र त्रयोदशबन्धे एका, नवबन्धे तिस्रः / चतुष्कोदये एका चतुर्विंशतिः / “एए चउवीसगय" त्ति 'एते' अनन्तरोक्ता एकादिकाः सङ्ख्याविशेषाः 'चतुर्विंशतिगताः' चतुर्विशत्यभिधायका एता अनन्तरोक्ताश्चतुर्विंशतयो ज्ञातव्या इत्यर्थः / एताश्च सर्वसङ्ख्यया चत्वारिंशत् / तथा "चउवीस दुगे" त्ति द्विकोदये चतुर्विंशतिरेका भङ्गकानाम् , एतच्च मतान्तरेणोक्तम् , अन्यथा खमते द्वादशैव भङ्गा वेदितव्याः / “इक्कमिक्कार" त्ति एकोदये एकादश भङ्गाः / ते चैवम्-चतुर्विधबन्धे चत्वारः, त्रिविधबन्धे त्रयः, द्विविधबन्धे द्वौ, एकविधबन्धे एकः, बन्धाभावे चैक इति // 18 // सम्प्रत्येतेषामेव भङ्गानां विशिष्टतरसङ्ख्यानिरूपणार्थमाह नवपंचाणउइसएहृदयविगप्पेहि मोहिया जीवा / इह दशादिषु द्विकपर्यवसानेषु उदयस्थानेषु उदयस्थानभङ्गकानामेकचत्वारिंशत् चतुर्विंशतयो लब्धाः, तत एकचत्वारिंशत् चतुर्विंशत्या गुण्यते, गुणितायां च सत्यां जातानि नव शतानि चतुरशीत्यधिकानि 984 / ततः तत्रैकोदयभङ्गा एकादश प्रक्षिप्यन्ते, तेषु च प्रक्षिप्तेषु नव शतानि पञ्चनवत्यधिकानि 995 भवन्ति / एतावद्भिरुदयस्थानविकल्पैर्यथायोगं सर्वे संसारिणो जीवाः 'मोहिताः' मोहमापादिता विज्ञेयाः / / सम्प्रति पदसङ्ख्यानिरूपणार्थमाह अउणत्तरिएगुत्तरिपयविंदसएहि विन्नेया // 19 // इह पदानि नाम-मिथ्यात्वम् अप्रत्याख्यानावरणक्रोधः प्रत्याख्यानावरणक्रोध इत्येवमादीनि, ततो वृन्दानां-दशायुदयस्थानरूपाणां पदानि पदवृन्दानि, आर्षत्वाद् राजदन्तादिषु मध्ये पाठाभ्युपगमाद्वा वृन्दशब्दस्य परनिपातः, तेषां शतैरेकसप्तत्यधिकैकोनसप्ततिसङ्ख्यैः 6971 1 सं० भङ्गका // 2 सं० 1 त० °ता वेदितव्याः / / 22
Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334