Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 176
________________ 93] शतकनामा पञ्चमः कर्मग्रन्थः / 111 रीरा-ऽऽहारकाङ्गोपाङ्गलक्षणे जघन्यप्रदेशे बध्नाति / अयमर्थः-परावर्तमानयोगो घोलनयोगीत्यर्थः, अष्टविधबन्धकः स्वप्रायोग्यसर्वजघन्यवीर्ये व्यवस्थितो नानो देवगतिः देवानुपूर्वी पञ्चेन्द्रियजातिः वैक्रियशरीरं वैक्रियाङ्गोपाङ्गं समचतुरस्रसंस्थानम् उच्छ्वासनाम पराघातनाम प्रशस्तविहायोगतिः सनाम बादरनाम पर्याप्तनाम प्रत्येकनाम स्थिरनाम शुभनाम यशःकीर्तिनाम सुभंगनाम सुस्वरनाम आदेयनाम वर्णचतुष्कं तैजस-कार्मणे अगुरुलघु उपघातं निर्माणं तीर्थकरनाम आहारकशरीरम् आहारकाङ्गोपाङ्गमित्येवमेकत्रिंशतं प्रकृतीबंनन् अप्रमत्तयतिराहारकशरीरा-ऽऽहारकाङ्गोपाङ्गलक्षणे द्वे प्रकृती जघन्यप्रदेशे बध्नाति / त्रिंशद्वन्धेऽप्येते बध्येते परं तत्राल्पा भागा इत्येकत्रिंशद्वन्धग्रहणम् / एतच्च प्रकृतिद्वयमन्यत्र न बध्यत इत्यप्रमत्तयतिग्रहणम् / तथा असंज्ञी सामान्योक्तावपि घोलमानयोगः परावर्तमानयोग इत्यर्थः, नरकत्रिकंनरकगति-नरकानुपूर्वी-नरकायुर्लक्षणं सुरायुः इत्येताश्चतस्रः प्रकृतीर्जघन्यप्रदेशबन्धाः करोति / तथाहि-पृथिवी-अप-तेजो-वायु-वनस्पतिकायिक-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिया देव-नारकेषूत्पत्यभावादेवैताश्चतस्रः प्रकृतीन बध्नन्तीति नेहाधिक्रियन्ते / असंश्यप्यपर्याप्तकस्तथाविधसंक्लेशविशुद्ध्यभावाद् नैता बध्नाति, अतः सूत्रे सामान्योक्तावपि "व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायात् पर्याप्तकोऽसौ द्रष्टव्यः / सोऽपि यद्येकस्मिन्नेव वाग्योगे काययोगे वा चिरमवतिष्ठमानो गृधेत तदा तीनचेष्टो भवेत् / योगात्तु योगान्तरं पुनः सङ्क्रामतः स्वभावादल्पचेष्टा भवतीति परावर्तमानयोगग्रहणम् / ततश्च परावर्तमानयोगोऽष्टविधं बनन् पर्याप्तोऽसंज्ञी खप्रायोग्यसर्वजघन्यवीर्ये वर्तमानः प्रस्तुतप्रकृतिचतुष्टयस्यैकं चतुरो वा समयान् यावद् जघन्यप्रदेशबन्धं करोतीति परमार्थः / पर्याप्तजघन्ययोगस्योत्कृष्टतोऽपि चतुःसमयावसानत्वादुत्तरत्राप्येष कालनियमो द्रष्टव्यः / ननु पर्याप्तसंज्ञी किमिति प्रकृतप्रकृतिचतुष्टयं न बध्नाति ? इति चेद् उच्यते-प्रभूतयोगत्वात् ; जघन्योऽपि हि पर्याप्तसंज्ञियोगः पर्याप्तासंश्युत्कृष्टयोगादप्यसख्येयगुण इति / तथा “सुरविउविदुगं" ति द्विकशब्दस्य प्रत्येकं सम्बन्धात् सुरद्विकं सुरगतिसुरानुपूर्वीरूपं वैक्रियद्विक-वैक्रियशरीर-वैक्रियाङ्गोपाङ्गलक्षणं जिननाम' तीर्थकरनामेत्येतत् प्रकृतिपञ्चकं “सम्मो” त्ति सम्यग्दृष्टिः "व्याख्यानतो विशेषप्रतिपत्तिः” इति न्यायाद् भवाघसमये वर्तमानः “जहन्नं" ति जघन्यं-जघन्यप्रदेशं करोति / तथाहि-कश्चिद् मनुष्यस्तीर्थकरनाम बद्धा देवेषु समुत्पन्नः प्रथमसमय एव मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां नामप्रकृतित्रिंशतं मनुष्यगतिर्मनुष्यानुपूर्वी पञ्चेन्द्रियजातिरौदारिकशरीरमौदारिकाङ्गोपाङ्गं समचतुरस्रसंस्थानं वज्रर्षभनाराचसंहननं पराघातमुच्छासं प्रशस्तविहायोगतिस्त्रसं बादरं पर्याप्तं प्रत्येकं स्थिरा-ऽस्थिरयोरेकतरं शुभा-शुभयोरेकतरं यशःकीर्ति-अयशःकीत्योरेकतरं सुभगं सुखरमादेयं तीर्थकरनाम वर्णचतुष्कं तैजस-कार्मणे अगुरुलघु उपघातं निर्माणमितिलक्षणां बनन् मूलपकृतिसप्तविधबन्धकोऽविरतसम्यग्दृष्टिः स्वप्रायोग्यजघन्यवीर्ये वर्तमानस्तीर्थकरनाम जघन्यप्रदेशबन्धं करोति / नारकोऽपि श्रेणिकादिवदेवं तद्वन्धकः सम्भवति, परमिह देवोऽल्पयोगत्वादनुत्तरवासी गृह्यते, नारकेषु त्वेवम्भूतो जघन्ययोगो न लभ्यतेऽतस्तेषु समुत्पन्नो १सं. 1-2 म० त० छा० °घातं //

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334