Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text ________________ j चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 145 भवतः केवलिनो न तु संज्ञिन इत्यर्थः / अत एव च केवलिग्रहणादिदमवसीयते केवली मनोविज्ञानरहितत्वात् संज्ञी न भवतीति // 4 // सम्प्रति तानेव सप्त विकल्पान् गुणस्थानकेषु चिन्तयन्नाह अट्ठसु एगविगप्पो, छस्सु वि गुणसंनिएसु दुविगप्पो / पत्तेयं पत्तेयं, बंधोदयसंतकम्माणं // 5 // इह गुणस्थानकानि चतुर्दश, तानि च षडशीतिकवृत्तौ सविस्तरमभिहितानीति नेह भूयोऽभिधीयन्ते / तत्राष्टसु गुणस्थानकेषु सम्यग्मिथ्यादृष्टि-अपूर्वकरणा-ऽनिवृत्तिबादर-सूक्ष्मसम्परायउपशान्तमोह-क्षीणमोह-सयोगिकेवलि-अयोगिकेवलिलक्षणेषु प्रत्येकं बन्ध-उदय-सत्कर्मणामेको विकल्पो भवति, तद्यथा-सम्यग्मिथ्यादृष्टि-अपूर्वकरणा-ऽनिवृत्तिबादरेषु सप्तविधो बन्धः अष्टविध उदयः अष्टविधा सत्ता / अथैतेषु अष्टविधोऽपि बन्धः कस्माद् न भवति ? उच्यतेस्वभावत एवैषामायुर्वन्धयोग्याध्यवसायस्थानशून्यत्वात् / सूक्ष्मसम्पराये षड्विधो बन्धः अष्टविध उदयः अष्टविधा सत्ता, सूक्ष्मसम्परायो हि बादरकषायोदयाभावाद् आयुर्मोहनीयं च न बध्नाति, ततस्तस्य षड्विध एव बन्धो भवति / उपशान्तकषायस्य एकविधो बन्धः सप्तविध उदयः अष्टविधा सत्ता, यत उपशान्तमोहः कषायोदयाभावाद् न ज्ञानावरणीयादि बध्नाति, किन्तु वेदनीयमेकं केवलम् , ततस्तत्रैकविध एव बन्धो भवति, मोहनीयस्य चोपशान्तत्वेनोदयाभावाद् उदयः सप्तविधः / क्षीणमोहस्य एकविधो बन्धः सप्तविध उदयः सप्तविधा सत्ता, अत्र मोहनीयं क्षीणत्वाद् उदये सत्तायां च न प्राप्यते, ततः सप्तविध उदयः सप्तविधा सत्ता / सयोगिकेवलिनि एकविधो बन्धश्चतुर्विध उदयश्चतुर्विधा सत्ता, केवली हि चतसृणामपि घातिप्रकृतीनां क्षयेण भवति, ततस्तस्य चतुर्विध एवोदयश्चतुर्विधैवे सत्ता / अयोगिकेवलिनो बन्धो न भवति योगाभावात् , ततश्चतुर्विध उदयश्चतुर्विधा सत्ता / तथा षट्सु गुणसंज्ञितेषु 'गुणस्थानकेषु' मिथ्याहष्टि-सासादना-ऽविरतसम्यग्दृष्टि-देशविरत-प्रमत्ता-प्रमत्तरूपेषु प्रत्येकं बन्ध-उदय-सत्कर्मणां द्वौ द्वौ विकल्पौ भवतः, तद्यथा-अष्टविधो बन्धः अष्टविध उदयः अष्टविधा सत्ता, एष विकल्प आयुबंन्धकाले, एतेषां ह्यायुर्बन्धयोग्याध्यवसायस्थानसम्भवाद् आयुर्बन्ध उपपद्यते / तथा सप्तविधो बन्धः अष्टविध उदयः अष्टविधा सत्ता, एष विकल्प आयुर्बन्धकालं मुक्त्वा शेषकालं सर्वदा लभ्यते // 5 // तदेवं मूलप्रकृतीरधिकृत्य बन्ध-उदय-सत्प्रकृतिस्थानानां परस्परं संवेध उक्तः स्वामित्वं च / सम्प्रति उत्तरप्रकृतीरधिकृत्य बन्ध-उदय-सत्प्रकृतिस्थानानां परस्परं संवेधः प्रोच्यते- 1 सं० 1 त० यस्योप° // 2 छा० मुद्रि० °व च सत्ता // 3 सं० °त्य प्रोच्य° // 4 इत ऊर्ध्वम्-"पंच नव दुन्नि अट्ठावीसा चउरो तहेव बायाला / दुन्नि य पंच य भणिया, -पयडीओ आणुपुव्वीए॥” इत्यष्टकर्मोत्तरप्रकृतिसूचकं गाथासूत्रं अस्मत्पार्श्ववर्तित्रिपाठपुस्तकादशेष्वेव दृश्यते, चिरत्नताडपत्रीयकागदोपरिलिखितसूत्रगाथाटीकामिश्र (शूढ) पुस्तकादशेषु तु नोपलभ्यते / यदत्र श्रीमद्भि 19
Loading... Page Navigation 1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334