________________ j चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 145 भवतः केवलिनो न तु संज्ञिन इत्यर्थः / अत एव च केवलिग्रहणादिदमवसीयते केवली मनोविज्ञानरहितत्वात् संज्ञी न भवतीति // 4 // सम्प्रति तानेव सप्त विकल्पान् गुणस्थानकेषु चिन्तयन्नाह अट्ठसु एगविगप्पो, छस्सु वि गुणसंनिएसु दुविगप्पो / पत्तेयं पत्तेयं, बंधोदयसंतकम्माणं // 5 // इह गुणस्थानकानि चतुर्दश, तानि च षडशीतिकवृत्तौ सविस्तरमभिहितानीति नेह भूयोऽभिधीयन्ते / तत्राष्टसु गुणस्थानकेषु सम्यग्मिथ्यादृष्टि-अपूर्वकरणा-ऽनिवृत्तिबादर-सूक्ष्मसम्परायउपशान्तमोह-क्षीणमोह-सयोगिकेवलि-अयोगिकेवलिलक्षणेषु प्रत्येकं बन्ध-उदय-सत्कर्मणामेको विकल्पो भवति, तद्यथा-सम्यग्मिथ्यादृष्टि-अपूर्वकरणा-ऽनिवृत्तिबादरेषु सप्तविधो बन्धः अष्टविध उदयः अष्टविधा सत्ता / अथैतेषु अष्टविधोऽपि बन्धः कस्माद् न भवति ? उच्यतेस्वभावत एवैषामायुर्वन्धयोग्याध्यवसायस्थानशून्यत्वात् / सूक्ष्मसम्पराये षड्विधो बन्धः अष्टविध उदयः अष्टविधा सत्ता, सूक्ष्मसम्परायो हि बादरकषायोदयाभावाद् आयुर्मोहनीयं च न बध्नाति, ततस्तस्य षड्विध एव बन्धो भवति / उपशान्तकषायस्य एकविधो बन्धः सप्तविध उदयः अष्टविधा सत्ता, यत उपशान्तमोहः कषायोदयाभावाद् न ज्ञानावरणीयादि बध्नाति, किन्तु वेदनीयमेकं केवलम् , ततस्तत्रैकविध एव बन्धो भवति, मोहनीयस्य चोपशान्तत्वेनोदयाभावाद् उदयः सप्तविधः / क्षीणमोहस्य एकविधो बन्धः सप्तविध उदयः सप्तविधा सत्ता, अत्र मोहनीयं क्षीणत्वाद् उदये सत्तायां च न प्राप्यते, ततः सप्तविध उदयः सप्तविधा सत्ता / सयोगिकेवलिनि एकविधो बन्धश्चतुर्विध उदयश्चतुर्विधा सत्ता, केवली हि चतसृणामपि घातिप्रकृतीनां क्षयेण भवति, ततस्तस्य चतुर्विध एवोदयश्चतुर्विधैवे सत्ता / अयोगिकेवलिनो बन्धो न भवति योगाभावात् , ततश्चतुर्विध उदयश्चतुर्विधा सत्ता / तथा षट्सु गुणसंज्ञितेषु 'गुणस्थानकेषु' मिथ्याहष्टि-सासादना-ऽविरतसम्यग्दृष्टि-देशविरत-प्रमत्ता-प्रमत्तरूपेषु प्रत्येकं बन्ध-उदय-सत्कर्मणां द्वौ द्वौ विकल्पौ भवतः, तद्यथा-अष्टविधो बन्धः अष्टविध उदयः अष्टविधा सत्ता, एष विकल्प आयुबंन्धकाले, एतेषां ह्यायुर्बन्धयोग्याध्यवसायस्थानसम्भवाद् आयुर्बन्ध उपपद्यते / तथा सप्तविधो बन्धः अष्टविध उदयः अष्टविधा सत्ता, एष विकल्प आयुर्बन्धकालं मुक्त्वा शेषकालं सर्वदा लभ्यते // 5 // तदेवं मूलप्रकृतीरधिकृत्य बन्ध-उदय-सत्प्रकृतिस्थानानां परस्परं संवेध उक्तः स्वामित्वं च / सम्प्रति उत्तरप्रकृतीरधिकृत्य बन्ध-उदय-सत्प्रकृतिस्थानानां परस्परं संवेधः प्रोच्यते- 1 सं० 1 त० यस्योप° // 2 छा० मुद्रि० °व च सत्ता // 3 सं० °त्य प्रोच्य° // 4 इत ऊर्ध्वम्-"पंच नव दुन्नि अट्ठावीसा चउरो तहेव बायाला / दुन्नि य पंच य भणिया, -पयडीओ आणुपुव्वीए॥” इत्यष्टकर्मोत्तरप्रकृतिसूचकं गाथासूत्रं अस्मत्पार्श्ववर्तित्रिपाठपुस्तकादशेष्वेव दृश्यते, चिरत्नताडपत्रीयकागदोपरिलिखितसूत्रगाथाटीकामिश्र (शूढ) पुस्तकादशेषु तु नोपलभ्यते / यदत्र श्रीमद्भि 19