________________ 144 मल्यगिरिमहर्षिविनिर्मितषिवृत्युपेतं [ गाथाः एकस्मिन् केवले वेदनीये बध्यमाने इत्यर्थः, 'त्रिविकल्पः' इति समाहारद्विगुत्वेऽप्यार्थत्वात् पुंस्त्वनिर्देशः, त्रयो विकरुपा भवन्तीत्यर्थः / तद्यथा-एकविधो बन्धः सप्तविध उदयोऽष्टविधा सत्ता, एष विकल्प उपशान्तमोहगुणस्थानके प्राप्यते, तत्र हि मोहनीयस्योदयो न विद्यते, सत्ता पुनरस्ति / तथा एकविधो बन्धः सप्तविध उदयः सप्तविधा सत्ता, एष विकल्पः क्षीणमोहगुणस्थानके प्राप्यते, तत्र हि मोहनीयस्य निःशेषतोऽपगमात् / तथा एकविधो बन्धश्चतुर्विध उदयश्चतुर्विधा सत्ता, एष पुनर्विकल्पः सयोगिकेवलिगुणस्थानके, तत्र घातिकर्मणामनवयवशोऽपगमात् चतसृणां चाघातिप्रकृतीनामुदये सत्तायां च प्राप्यमाणत्वात् / “एगविगप्पो अबंधम्मि" त्ति 'अबन्धे' बन्धाभावे एक एव विकल्पः, तद्यथा-चतुर्विध उदयश्चतुर्विधा सत्ता, एष चायोगिकेवलिगुणस्थानके प्राप्यते, तत्र हि योगाभावाद् बन्धो न भवति, उदय-सत्ते चाघातिकर्मणां भवतः // 3 // तदेवं मूलप्रकृतीरधिकृत्य बन्ध-उदय-सत्प्रकृतिस्थानानां परस्परं संवेधे सप्त विकल्पा उक्ताः। सम्प्रति एतानेव जीवस्थानेषु चिन्तयन्नाह सत्तट्ठबंधअहृदयसंत तेरससु जीवठाणेसु। एगम्मि पंच भंगा, दो भंगा हुंति केवलिणो // 4 // इह जीवस्थानानि चतुर्दश, तद्यथा-अपर्याप्तसूक्ष्मैकेन्द्रियः 1 पर्याप्तसूक्ष्मैकेन्द्रियः 2 अपर्याप्तबादरैकेन्द्रियः 3 पर्याप्तबादरैकेन्द्रियः 4 अपर्याप्तद्वीन्द्रियः 5 पर्याप्तद्वीन्द्रियः 6 अपप्तित्रीन्द्रियः 7 पर्याप्तत्रीन्द्रियः 8 अपर्याप्तचतुरिन्द्रियः 9 पर्याप्तचतुरिन्द्रियः 10 अपर्याप्तासंज्ञिपञ्चेन्द्रियः 11 पर्याप्तासंज्ञिपञ्चेन्द्रियः 12 अपर्याप्तसंज्ञिपञ्चेन्द्रियः 13 पर्याप्तसंज्ञिपञ्चेन्द्रियः 14 इति / एतानि च सप्रपञ्चं षडशीतिकवृत्ती व्याख्यातानीति नेह भूयो व्याख्यायन्ते / तत्र त्रयोदशसु आयेषु जीवस्थानेषु प्रत्येकं द्वौ द्वौ विकल्पौ भवतः, तद्यथा-सप्तविधो बन्धः अष्टविध उदयः अष्टविधा सत्ता, एष विकल्प आयुर्बन्धकालं मुक्त्वा शेषकालं सर्वदैव लभ्यते; अष्टविधो बन्धः अष्टविध उदयः अष्टविधा सत्ता, एष विकल्प आयुर्बन्धकाले, एष चान्तीहूर्तिकः, आयुबन्धकालस्य जघन्येनोत्कर्षेण चान्तर्मुहूर्तप्रमाणत्वात् / “एगम्मि पंच भंग" त्ति 'एकस्मिन्' पर्यातसंज्ञिपञ्चेन्द्रियलक्षणे पश्च भङ्गा भवन्ति / तत्रादिमौ द्वौ भनौ प्रागिव भावनीयौ, त्रयस्तु शेषा इमे षड्विधो बन्धः अष्टविध उदयः अष्टविधा सत्ता, एष विकल्पः सूक्ष्मसम्परायस्य उपशमश्रेण्यां क्षपकश्रेण्यां वा वर्तमानस्य वेदितव्यः; तथा एकविधो बन्धः सप्तविध उदयः अष्टविधा सत्ता, एष विकल्प उपशान्तमोहगुणस्थानके प्राप्यते; तथा एकविधो बन्धः सप्तविध उदयः सप्तविधा सत्ता, एष च क्षीणमोहगुणस्थानके / तथा द्वौ भनौ भवतः केवलिनः, तद्यथा-एकविधो बन्धश्चतुर्विध उदयश्चतुर्विधा सत्ता, एष विकल्पः सयोगिकेवलिनः; बन्धाभावे चतुर्विध उदयश्चतुर्विधा सत्ता, एष विकल्पोऽयोगिकेवलिनः / इह केवलिग्रहणं संज्ञिव्यवच्छेदार्थम् , द्वौ भनौ 1 सं० छा० °नके प्राप्यते तत्र // 2 सामस्त्येनेत्यर्थः //