________________ 2-3 चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 143 तदेवं कृता उदयमधिकृत्य प्रकृतिस्थानप्ररूपणा / सम्प्रति कस्याः प्रकृतेरुदये कति प्रकृतिस्थानान्युदयमाश्रित्य प्राप्यन्ते? इति निरूप्यते तत्र मोहनीयस्योदयेऽष्टानामप्युदयः, मोहनीयवर्जानां त्रयाणां घातिकर्मणामुदये अष्टानां सप्तानां वा / तत्राष्टानां सूक्ष्मसम्परायगुणस्थानकं यावत् , सप्तानामुपशान्तमोहे क्षीणमोहे वा, वेदनीया-ऽऽयुः-नाम-गोत्राणामुदयेऽष्टानां सप्तानां चतसृणां वा उदयः / तत्राष्टानां सूक्ष्मसम्परायं यावत् , सप्तानामुपशान्तमोहे क्षीणमोहे वा, चतसृणामेतासामेव वेदनीयादीनां सयोगिकेवलिनि अयोगिकेवलिनि च।। ___ सम्प्रति सत्तामधिकृत्य प्रकृतिस्थानप्ररूपणा क्रियते-सत्तां प्रति त्रीणि प्रकृतिस्थानानि / तद्यथा-अष्टौ सप्त चतस्रः / तत्र सर्वप्रकृतिसमुदायोऽष्टौ, एतासां चाष्टानां सत्ता अभव्यानधिकृत्य अनाद्यपर्यवसाना, भव्यानधिकृत्य अनादिसपर्यवसाना / तथा मोहनीये क्षीणे सप्तानां सत्ता, सा च जघन्योत्कर्षेणान्तर्मुहूर्तप्रमाणा, सा हि क्षीणमोहे, क्षीणमोहगुणस्थानकं चान्तर्मुहूर्तप्रमाणमिति / घातिकर्मचतुष्टयक्षये च चतसृणां सत्ता, सा च जघन्येनान्तर्मुहूर्तप्रमाणा, उत्कर्षण पुनर्देशोनपूर्वकोटिमाना। कृता सत्तामधिकृत्य प्रकृतिस्थानप्ररूपणा / सम्प्रति कस्यां प्रकृतौ सत्यां कति प्रकृतिस्थानानि सत्तामधिकृत्य प्राप्यन्ते ? इति निरूप्यते-मोहनीये सत्यष्टानामपि सत्ता, ज्ञानावरणदर्शनावरणा-ऽन्तरायाणां सत्तायां अष्टानां सप्तानां वा सत्ता / तत्राष्टानामुपशान्तमोहगुणस्थानकं यावत् , मोहनीये क्षीणे सप्तानां, सा च क्षीणमोहगुणस्थानके / वेदनीया-ऽऽयुः-नाम-गोत्राणां सत्तायामष्टानां सप्तानां चतसृणां वा सत्ता / तत्राष्टानां सप्तानां च भावना प्रागिव, चतसृणां सत्ता वेदनीयादीनामेव, सा च सयोगिकेवलिगुणस्थानके अयोगिकेवलिगुणस्थानके च द्रष्टव्या // 2 // सम्प्रति बन्ध-उदय-सत्ताप्रकृतिस्थानानां परस्परं संवेधप्ररूपणार्थमाह अट्ठविहसत्तछब्बंधगेसु अटेव उदयसंताई। एगविहे तिविगप्पो, एगविगप्पो अबंधम्मि // 3 // अष्टविधबन्धक-सप्तविधबन्धक-षविधबन्धकेषु प्रत्येकमुदये सत्तायां च नै कर्माणि प्राप्यन्ते / कथम् ? इति चेद् उच्यते-इहाष्टविधबन्धका अप्रमत्तान्ताः, सप्तविधबन्धका अनिवृत्तिबादरसम्परायपर्यवसानाः, षड्विधबन्धकाश्च सूक्ष्मसम्परायाः, एते च सर्वेऽपि सरागाः / सरागत्वं च मोहनीयोदयाद् उपजायते, उदये च सत्यवश्यं सत्ता, ततो मोहनीयोदये सत्तासम्भवाद् अष्टविध-सप्तविध-षड्विधबन्धकेष्ववश्यमुदये सत्तायां चाष्टौ प्राप्यन्ते / एतेन च त्रयो भङ्गा दर्शिताः, तद्यथा-अष्टविधो बन्धः अष्टविध उदयः अष्टविधा सत्ता / एष विकल्प आयुर्बन्धकाले, एष च मिथ्यादृष्ट्यादीनामप्रमत्तान्तानामवसेयो न शेषाणाम् , आयुर्बन्धासम्भ'वात् / तथा सप्तविधो बन्धोऽष्टविध उदयोऽष्टविधा सत्ता, एष विकल्प आयुर्बन्धाभावे, एष च मिथ्यादृष्ट्यादीनामनिवृत्तिबादरसम्परायान्तानामवसेयः। तथा षड्विधो बन्धोऽष्टविध उदयोऽष्टविधा सत्ता, एष विकल्पः सूक्ष्मसम्परायाणाम् / “एगविहे तिविगप्पो" त्ति 'एकविधे' एकप्रकारे बन्धे 1 सं० 1 मुद्रि० सा चाज // 2 त० छा० मुद्रि० °क्षये चत° // 3 सं० त० °दयसत्ता //