________________ 142 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [ गाथाः शवायुः मोहनीयवर्जाः षट्, एतासां च बन्धो जघन्येनैकं समयम् , तथाहि--एतासामुक्तरूपाणां षण्णां प्रकृतीनां बन्धः सूक्ष्मसम्पराये, स च उपशमश्रेण्यां कश्चिदेकं समयं भूत्वा द्वितीये समये भवक्षयेण दिवं गतः सन् अविरतो भवति, अविरतत्वे चावश्यं सप्तप्रकृतीनां बन्ध इति षण्णां बन्धो जघन्येनैकं समयं यावत् , उत्कर्षेण त्वन्तर्मुहूर्तम्, सूक्ष्मसम्परायगुणस्थानकस्यान्तर्मुहूतप्रेमाणत्वात् / तथा सप्तानां प्रकृतीनां बन्धव्यवच्छेदे एकस्या वेदनीयरूपायाः प्रकृतेर्बन्धः, स च जघन्येनैकं समयम् , एकसमयता चोपशमश्रेण्यामुपशान्तमोहगुणस्थाने प्रागुक्तप्रकारेण भावनीया, उत्कर्षेण पुनर्देशोनां पूर्वकोटिं यावत् / ___ स चोत्कर्षतः कस्य वेदितव्यः ? इति चेद् उच्यते—यो गर्भवासे माससप्तकमुषित्वाऽनन्तरं शीघ्रमेव योनिनिष्क्रमणजन्मना जातो वर्षाष्टकाचोपरि संयमं प्रतिपन्नः, प्रतिपत्त्यनन्तरं च क्षपकश्रेणिमारुह्योत्पादितकेवलज्ञानदर्शनः, तस्य सयोगिकेवलिनो वेदितव्यः / तदेवं बन्धमाश्रित्य प्रकृतिस्थानप्ररूपणा कृता / सम्प्रति कस्यां प्रकृतौ बध्यमानायां कति प्रकृतिस्थानानि बन्धमाश्रित्य प्राप्यन्ते ? इति निरूप्यते-तत्रायुषि बध्यमानेऽष्टावपि प्रकृतयो नियमेन बध्यन्ते। मोहनीये तु बध्यमानेऽष्टौ सप्त वा / तत्राष्टौ सर्वाः प्रकृतयः, ता एवायुर्वर्जाः सप्त / ज्ञानावरण-दर्शनावरण-नाम-गोत्रा-ऽन्तरायेषु बध्यमानेषु अष्टौ सप्त षड्वा / तत्राष्टौ सप्त च प्रागिव / मोहनीया-ऽऽयुर्वर्जाः षट् , ताश्च सूक्ष्मसम्पराये प्राप्यन्ते / वेदनीये तु बध्यमानेऽष्टौ सप्त षड् एका च / तत्राष्टौ सप्त षट् च प्रागिव / एका तु सैव वेदनीयरूपा प्रकृतिः, सा चोपशान्तमोहगुणस्थानकादौ प्राप्यते ।उक्तं च आउम्मि अट्ठ मोहेऽट्ठ सत्त एक्कं च छाइ वा तइए / यज्झतयम्मि बझंति सेसएसुं छ सत्तऽ? // (पञ्चसंगा०८३८) सम्प्रति उदयमाश्रित्य प्रकृतिस्थानप्ररूपणा क्रियते-उदयं प्रति त्रीणि प्रकृतिस्थानानि, तद्यथा-अष्टौ सप्त चतस्रः / तत्र सर्वप्रकृतिसमुदायोऽष्टौ, तासां चोदयोऽभव्यानधिकृत्य अनाद्यपर्यवसितः, भव्यानधिकृत्यानादिसपर्यवसानः, उपशान्तमोहगणस्थानकात प्रतिपतितानधिकत्य पुनः सादिसपर्यवसानः, स च जघन्येनान्तर्मुहूर्तप्रमाणः, उपशमश्रेणीतः प्रतिपतितस्य पुनरप्यन्तमुहूर्तेन कस्यापि उपशमश्रेणिप्रतिपत्तेः, उत्कर्षेण तु देशोनापार्धपुद्गलपरावर्तः / तथा ता एवाष्टौ मोहनीयवर्जाः सप्त, तासामुदयो जघन्येनैकं समयम् , तथाहि-सप्तानामुक्तस्वरूपाणां प्रकृतीनामुदय उपशान्तमोहे क्षीणमोहे वा प्राप्यते, तत्र कश्चिद् उपशान्तमोहगुणस्थानके एकं समयं स्थित्वा द्वितीये समये भवक्षयेण दिवं गच्छन् अविरतो भवति, अविरतत्वे चावश्यमष्टानां प्रकृतीनामुदयः, ततः सप्तानामुदयो जघन्येनैकं समयं यावत् प्राप्यते / उत्कर्षेण त्वन्तर्मुहूर्तम् , उपशान्तमोहगुणस्थानकस्य क्षीणमोहगुणस्थानकस्य वा सप्तोदयहेतोरान्तौहूर्तिकत्वात् / तथा घातिकर्मवर्जाश्चतस्रः प्रकृतयः, तासामुदयो जघन्येनान्तर्मोहूर्तिकः, उत्कर्षेण तु देशोनपूर्वकोटिप्रमाणः। 1 मुद्रि०क्तस्वरूपा एवमग्रेऽपि // 2 स० 1 त० सप्तानां प्रकृ॥ 3 सं०१त०म० °कस्योप // 4 आयुषि अष्टौ मोहेऽष्टौ सप्तकं च षडादयो वा तृतीये। बध्यमाने बध्यन्ते शेषेषु षट् सप्ताष्टौ //