________________ 1-2 चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 141 ननु बन्ध-उदय-सत्प्रकृतिस्थानानां संक्षेपोऽभिधातव्यः किं प्रत्येकम् ? आहोस्वित् संवैधरूपः ? उच्यते-संवेधरूपः, तथा चामुमेव संवेधरूपं संक्षेपं विवक्षुः शिष्यान् प्रश्नं कारयति कइ बंधंतो वेयइ, कइ कइ वा पयडिसंतठाणाणि। मूलुत्तरपगईसुं, भंगविगप्पा उ बोधव्वा // 2 // ___ कतिशब्दः परिमाणपृच्छायाम् / कति कर्मप्रकृतीबंध्नन् कति कर्मप्रकृतीर्वेदयते ? कति वा तथातथाबनतो वेदयमानस्य च 'प्रकृतिसत्कर्मस्थानानि' प्रकृतिसत्तास्थानानि ? / एवं शिष्यैः प्रभे कृते सति आचार्योऽस्मिन् विषये भङ्गजालमनेकप्रकारं वचोमात्रेण यथावत् प्रतिपादयितुमशक्यं जानानः सामान्येनैव प्रत्युत्तरमाह-"मूल" इत्यादि / मूलप्रकृतिषु-ज्ञानावरण-दर्शनावरणादिरूपासु उत्तरप्रकृतिषु च-मतिज्ञानावरण-श्रुतज्ञानावरणादिरूपासु, उभयीषु च वक्ष्यमाणस्वरूपासु प्रत्येकं बन्ध-उदय-सत्ता-संवेधमधिकृत्य चिन्त्यमानासु बहवो भङ्गाः सम्भवन्ति, ते चास्मिन् प्रकरणे यथावद् वैविक्त्येन प्रतिपाद्यमानाः सम्यग् बोद्धव्याः। तत्र मूलप्रकृतयोऽष्टौ, तद्यथा-ज्ञानावरणं दर्शनावरणं वेदनीयं मोहनीयम् आयुः नाम गोत्रम् अन्तरायं च / तत्र ज्ञायते-परिच्छिद्यते वस्तु अनेनेति ज्ञानं-सामान्य-विशेषात्मके वस्तुनि विशेषग्रहणात्मको बोधः, आवियतेऽनेनेत्यावरणं-मिथ्यात्वादिसचिवजीवव्यापाराहृतकर्मवर्गणान्तःपाती विशिष्टपुइलसमूहः, ज्ञानस्यावरणं ज्ञानावरणम् 1 / तथा दृश्यतेऽनेनेति दर्शनं सामान्य-विशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधः, तस्यावरणं दर्शनावरणम् 2 / तथा वेद्यते-आबादादिरूपेणानुभूयते यत् तद् वेदनीयं, यद्यपि च सर्वं कर्म वेद्यते तथापि पङ्कजादिशब्दवद् वेदनीयशब्दस्य रूदिविषयत्वात् सातासातरूपमेव कर्म वेदनीयमित्युच्यते न शेषम् 3 / तथा मोहयतिसदसद्विवेकविकलं करोत्यात्मानमिति मोहनीयम्, कृत् “बहुलम्” (सिद्धहे० 5-1-2) इति वचनात् कर्तर्यनीयः 4 / तथा एति-गच्छत्यनेन गत्यन्तरमित्यायुः, यद्वा एति-आगच्छति प्रतिबन्धकता स्वकृतकर्मावाप्तनरकादिकुगतिनिष्क्रमितुमनसो जन्तोरित्यायुः, उभयत्रापि औणादिको [स् प्रत्ययः 5 / तथा नामयति-गत्यादिपर्यायानुभवनं प्रति प्रवणयति जीवमिति नाम 6 / तथा गूयते-शब्द्यते उच्चावचैः शब्दैरात्मा यस्मात् तद् गोत्रम् 7 / तथा जीवं दानादिकं चान्तरा एति न जीवस्य दानादिकं कर्तुं ददातीत्यन्तरायम् 8 / एता मूलप्रकृतयः / - एतासु प्रथमतो बन्ध-उदय-सत्ता अधिकृत्य प्रकृतिस्थानप्ररूपणा क्रियते, प्रकृतिस्थानेषु हि प्रथमं प्ररूपितेषु सत्सु तदाश्रितः संवेधः प्ररूप्यमाणः सुखेनैवावगन्तुं शक्यते / तत्र मूलप्रकृतीनामुक्तस्वरूपाणां बन्धं प्रतीत्य चत्वारि प्रकृतिस्थानानि / तद्यथा-अष्टौ सप्त षड् एका च। तत्र सर्वप्रकृतिसमुदायोऽष्टौ, एतासां च बैन्धो जघन्योत्कर्षेणान्तर्मुहूर्तप्रमाणः, आयुषि हि बध्यमानेऽष्टानां प्रकृतीनां बन्धः प्राप्यते, आयुषश्च बन्धोऽन्तर्मुहूर्तमेव कालं भवति न ततोऽप्यधिकम् / तथा ता एवाष्टावायुर्वर्जाः सप्त, एतासां च बन्धो जघन्येनान्तर्मुहूर्त यावद्, उत्कर्षेण च त्रयस्त्रिंशत्सागरोपमाणि षण्मासोनानि अन्तर्मुहूर्तोनपूर्वकोटित्रिभागाभ्यधिकानि / तथा ता एवा 1 सं० णुसु प्र° // 2 सं० 1 त० °त्वारि बन्धस्था // 3 सं० मुद्रि० बन्धोऽजप //