________________ 140 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [ गाथाः इति सूत्रेण पञ्चमी, यथा प्रासादात् प्रेक्षते इत्यत्र / तत्र बन्धो नाम-कर्मपरमाणूनामात्मप्रदेशैः सह वययःपिण्डवदन्योऽन्यानुगमः 1 / कर्मपरमाणूनामेव विपाकप्राप्तानामनुभवनमुदयः 2 / तथा बन्धसमयात् सङ्कमेणात्मलाभसमयाद्वा आरभ्य यावत् ते कर्मपरमाणवो नान्यत्र सङ्क्रम्यन्ते यावद् वा न क्षयमुपगच्छन्ति तावत् तेषां स्वस्वरूपेण यः सद्भावः सा सत्ता 3 / सदिति सूत्रे निर्देशो भावप्रधानः, तेन सदिति सत्ता व्याख्याता। प्रकृतीनां स्थानानि-समुदायाः प्रकृतिस्थानानि द्विव्यादिप्रकृतिसमुदाया इत्यर्थः, स्थानशब्दोऽत्र समुदायवाची / बन्ध-उदय-सत्तासु प्रकृतिस्थानानि बन्ध-उदय-सत्ताप्रकृतिस्थानानि तेषां संक्षेपं वक्ष्ये / तं च वक्ष्यमाणं शृणु। 'शृणु' इति क्रियापदं च श्रोतॄणां कथञ्चिदनाभोगवशतः प्रमादसम्भवेऽप्याचार्येण नोद्विजितव्यम् , किन्तु सुमधुरवचोभिः शिक्षानिबन्धनैः श्रोतृणां मनांसि प्रहाद्य यथार्हमागमार्थो निवेदनीय इति ख्यापनार्थम् / तदुक्तम् अणुवत्तणाएँ सेहा, पायं पार्वति जोग्गयं परमं / रयणं पि गुणुक्करिसं, उवेइ सोहम्मणगुणेणं // एत्थ य पमायखलिया, पुबब्भासेण कस्स व न होति / जो तेऽवणेइ सम्मं, गुरुत्तणं तस्स सफलं ति // को नाम सारहीणं, स होज जो भद्दवाइणो दमए। दुढे वि य जो आसे, दमेइ तं सारहिं बेति // ( पश्चव० गा० 17-19) / संक्षेपस्यैव विशेषणार्थमाह-'महार्थ' महान्-प्रभूतोऽर्थः-अभिधेयं यस्य स महार्थः / ननु संक्षेपो विस्तरार्थसङ्घहरूपः, ततः स महार्थ एव भवतीति किमर्थ महार्थमिति विशेषणम् ! तदयुक्तम् , संक्षेपस्यान्यथाऽपि सम्भवात् / तथाहि-आख्याना-ऽऽलापक-सङ्ग्रहण्यः संक्षेपरूपा दृश्यन्ते न च महार्थाः, तत्तात्पर्यार्थस्याल्पीयस्त्वात् , ततस्तत्कल्पममुं संक्षेपं मा ज्ञासीद् विनेयजन इत्यमहार्थत्वाऽऽशङ्कापनोदार्थ महार्थमिति विशेषणम् / पुनरप्यमुं विशेषयति–'निस्यन्दं दृष्टिवादस्य' दृष्टिवादमहार्णवस्य बिन्दुभूतं-निस्यन्दकल्पम् / दृष्टिवादो हि परिकर्म 1 सूत्र 2 प्रथमानुयोग 3 पूर्वगत 4 चूलिका 5 रूपपञ्चप्रस्थानः / तत्र पूर्वेषु मध्ये द्वितीये अग्रायणीयाभिधाने चतुर्दशवस्तुसमन्विते पूर्वे यत् पञ्चमं वस्तु विंशतिप्राभृतपरिमाणं तस्य चतुर्थ यत् कर्मप्रकृतिनामकं चतुर्विशत्यनुयोगद्वारमयं प्राभृतं तस्यादिमे त्रयो बन्धादयः सूत्रकृता लेशतो वक्ष्यन्ते / ततोऽयं बन्ध-उदय-सत्प्रकृतिस्थानानां संक्षेपो दृष्टिवादस्य निस्यन्दरूपः / अनेन च प्रकरणस्य सर्वविन्मूलता ख्यापिता द्रष्टव्या / दृष्टिवादो हि भगवता परमार्हन्त्यमहिना विराजमानेन वीरवर्धमानस्वामिना साक्षादर्थतोऽभिहितः, सूत्रतस्तु सुधर्मस्वामिना, तन्निस्यन्दरूपं चेदं प्रकरणमतः सर्वविन्मूलमिति // 1 // 1 सं० 1 त. "मः 1 / तथा कर्म° // 2 सं० 1 सं० त० म० छा० °षां स्वरूपेण // 3 अनुवर्तनया शैक्षाः प्रायः प्राप्नुवन्ति योग्यतां परमाम् / रत्नमपि गुणोत्कर्षमुपैति शोधकगुणेन / / अत्र च प्रमादस्खलितानि पूर्वाभ्यासेन कस्य वा न भवन्ति ? / यस्तानि अपनयति सम्यग् गुरुत्वं तस्य सफल. मिति // को नाम सारथीनां स भवेद यो भद्रवाजिनो दमयेत् ? / दुष्यनपि च योऽश्वान् दमयति तं सारथिं ब्रुवते //