________________ // अहम् // नमः कर्मतत्त्ववेदिभ्यः पूर्वसूरिभ्यः / नमः श्रीमद्विजयानन्दसूरीशपट्टप्राप्तप्रतिष्ठेभ्यः श्रीमद्विजयवल्लभसूरिभ्यः / महर्षिश्रीमञ्चन्द्रर्षिमहत्तरविरचितं सप्ततिकाप्रकरणम्। पूज्यश्रीमन्मलयगिरिमहर्षिविनिर्मितविवृतिसमलङ्कतम् / __ ॐ सर्वविदे नमः। अशेषकर्मांशतमःसमूहक्षयाय भास्वानिव दीप्ततेजाः / प्रकाशिताशेषजगत्स्वरूपः, प्रभुः स जीयाज्जिनवर्धमानः // जीयाजिनेशसिद्धान्तो, मुक्तिकामप्रदीपनः / कुश्रुत्यातपतप्तानां, सान्द्रो मलयमारुतः // चूर्णयो नावगम्यन्ते, सप्ततेर्मन्दबुद्धिभिः / ततः स्पष्टावबोधार्थ, तस्याष्टीका करोम्यहम् // अहर्निशं चूर्णिविचारयोगाद्, मन्दोऽपि शक्तो विवृति विधातुम् / निरन्तरं कुम्भनिघर्षयोगाद्, ग्रावाऽपि कूपे समुपैति घर्षम् // इह यत् शास्त्रं प्रकरणं वा सर्वविन्मूलं तत् प्रेक्षावतामुपादेयं भवति, नान्यत् / ततः सप्ततिकाख्यं प्रकरणमारभमाण आचार्यः प्रेक्षावतां प्रकरणविषये उपादेयबुद्धिपरिग्रहार्थ प्रकरणस्य सर्वविन्मूलताम् , तथा सर्वविन्मूलत्वेऽपि न प्रेक्षापूर्वकारिणोऽभिधेयादिपरिज्ञानमन्तरेण यथाकथञ्चित् प्रवर्तन्ते प्रेक्षावत्ताक्षतिप्रसङ्गात् , ततस्तेषां प्रवृत्त्यर्थमभिधेयादिकं च प्रतिपिपादयिषुरिदमाह सिद्धपएहि महत्थं, बंधोदयसंतपयडिठाणाणं / वोच्छं सुण संखेवं, नीसंदं दिहिवायस्स // 1 // सिद्धं-प्रतिष्ठितं चालयितुमशक्यमित्येकोऽर्थः / ततः सिद्धानि पदानि येषु ग्रन्थेषु ते सिद्धपदाः-कर्मप्रकृतिप्राभृतादयः, न हि तेषां पदानि कैश्चिदपि चालयितुं शक्यन्ते, तेषां सर्वज्ञोक्तार्थानुसारित्वात् तेभ्यो बन्ध-उदय-सत्प्रकृतिस्थानानां संक्षेपं वक्ष्ये / अथवा स्वसमये . सिद्धानि-प्रसिद्धानि यानि जीवस्थान-गुणस्थानरूपाणि पदानि तानि सिद्धपदानि तेभ्यः तान्याश्रित्य तेषु विषय इत्यर्थः / अत्र स्थाने “गम्ययपः कर्माधारे" ( सिद्धहे० 2-2-74 ) 1 °सं० 1 त० °त् तत्र प्रव° // 2 सं० 1 त० म० छा० वुच्छं // 3 सं०१ त० निस्संदं //