________________ 146 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [ गाथाः ___ उत्तरप्रकृतयश्चेमाः, तद्यथा-मतिज्ञानावरणं श्रुतज्ञानावरणम् अवधिज्ञानावरणं मनःपर्यवज्ञानावरणं केवलज्ञानावरणम् , एताश्च पञ्चापि ज्ञानावरणस्योत्तरप्रकृतयः / तत्र “मन ज्ञाने" मननं मतिः, यद्वा मन्यते-इन्द्रिय-मनोद्वारेण नियतं वस्तु परिच्छिद्यतेऽनयेति मतिः, योग्यदेशावस्थितवस्तुविषय इन्द्रिय-मनोनिमित्तोऽवगमविशेषः, मतिश्च सा ज्ञानं च मतिज्ञानं तस्यावरणं मतिज्ञानावरणम् 1 / श्रवणं-श्रुतं अभिलापप्लावितार्थग्रहणहेतुरुपलब्धिविशेषः, 'एवमाकारं वस्तु घटशब्दाभिलाप्यं जलधारणाद्यर्थक्रियासमर्थम्' इत्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रिय-मनोनिमित्तोऽवगमविशेष इत्यर्थः, श्रुतं च तद् ज्ञानं च श्रुतज्ञानं तस्यावरणं श्रुतज्ञानावरणम् 2 / तथा अवशब्दोऽधःशब्दार्थः, अव-अधोऽधो विस्तृतं वस्तु धीयते-परिच्छिद्यतेऽनेनेति अवधिः, यद्वा अवधिः-मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा, तदुपलक्षितं ज्ञानमपि अवधिः, अवधिश्च तद् ज्ञानं च अवधिज्ञानं तस्यावरणं अवधिज्ञानावरणम् 3 / तथा पेरिः-सर्वतोभावे, अवनं अवः, तुदादिभ्योऽनक्कावित्यधिकारे अकितौ चेत्यनेनौणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा पर्यवः मनःपर्यवः सर्वतस्तत्परिच्छेद इत्यर्थः, मनःपर्यवंश्च स ज्ञानं च मनःपर्यवज्ञानम् , इदं चार्धतृतीयद्वीपसमुद्रान्तर्वर्तिसंज्ञिमनोगतद्रव्यालम्बनमवसेयम् ; मनःपर्यायज्ञानमित्येवमप्येतदुच्यते, तत्र मनसः पर्यायाः-बाह्यवस्त्वालोचनप्रकारा धर्मा मनःपर्यायाः, तेषु तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानम् , तस्यावरणं मनःपर्यायज्ञानावरणं मनःपर्यवज्ञानावरणं वा 4 / तथा केवलम् एकं मत्यादिज्ञाननिरपेक्षत्वात् "नॅट्ठम्मि उ छाउमथिए नाणे" (आव० नि० गा० 539) इति वचनात् , शुद्धं वा केवलं तदावरणमलकलङ्कापगमात् , सकलं वा केवलं प्रथमत एवाशेषतदावरणविगमतः सम्पूर्णोत्पत्तेः, असाधारणं वा केवलं अनन्यसदृशत्वात् , अनन्तं वा केवलं ज्ञेयानन्तत्वात् , केवलं च तद् ज्ञानं च केवलज्ञानम् , तस्यावरणं केवलंज्ञानावरणम् 5 // दर्शनावरणस्य नवोत्तरप्रकृतयः, तद्यथा-निद्रा 1 निद्रानिद्रा 2 प्रचला 3 प्रचलापचला 4 स्त्यानद्धिः 5 चक्षुर्दर्शनावरणम् 6 अचक्षुर्दर्शनावरणम् 7 अवधिदर्शनावरणं 8 केवलदर्शनावरणं च 9 / तत्र "द्रा कुत्सायां गतौ" नितरां द्राति–कुत्सितत्वम् अविस्पष्टत्वं गच्छति चैतन्यं यस्यां सा निद्रा, भिदादित्वादङ्, यस्यां नखच्छोटिकामात्रेण स्वप्तुः प्रबोध उपजायते सा स्वापावस्था निद्रा, तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रा, कारणे कार्योपचारात् 1 / तथा निद्रातोऽतिशायिनी निद्रा निद्रानिद्रा, मयूरव्यंसकादित्वाद् मध्यपदलोपी समासः, तस्यां हि चैतन्यस्यात्यन्तमस्फुटीभूतत्वाद् बहुभिर्घोलनाप्रकारैः प्रबोध उपजायते, अतः सुखप्रबोधहेतुनिद्रातोऽस्या अतिशायिनीत्वम् , तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रानिद्रा 2 / तथा उपविष्ट ऊर्ध्वस्थितो वा प्रचलति-विघूर्णते यस्यां स्वापावस्थायां सा प्रचला, तद्विपाकवेद्या कर्मप्रकृतिमलयगिरिभिरष्टकर्मोत्तरप्रकृतीनां विवेचनं कृतमस्ति तद् यद्यपि उपर्युक्तगाथानुसारि दृश्यते तथापि तद्विहितान्यगाथाव्याख्यानशैल्या अस्यामदर्शनात् प्रसङ्गतः कृतमिति प्रतिभाति / अतः सम्भाव्यते केनापि विदुषा अष्टकर्मोत्तरप्रकृतिनिबद्धं गाथासूत्रं प्रक्षिप्तमिति // 1 सं०१ त० म० °मशब्दा // 2 सं०१ त०म० 'परि सर्व // 3 त० छा० °वश्च तद् ज्ञा // 4 नष्टे तु छाद्मस्थिके ज्ञाने //