________________ चन्दर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 147 रपि प्रचला 3 / तथा प्रचलातोऽतिशायिनी प्रचला प्रचलाप्रचला, अत्रापि मध्यपदलोपी समासः, एषा हि चक्रमणमपि कुर्वत उपतिष्ठते, ततः स्थानस्थितस्वप्तृभवप्रचलापेक्षया अस्या अतिशायिनीत्वम् , तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचलाप्रचला 4 / तथा स्त्याना-पिण्डीभूता ऋद्धिः-आत्मशक्तिरूपा यस्यां स्वापावस्थायां सा स्त्यानर्द्धिः, तद्भावे हि उत्कर्षतः प्रथमसंहननस्य केशवार्धबलसदृशी शक्तिर्भवति, श्रूयते चैतत् कथानकमागमे कचित् प्रदेशे कोऽपि क्षुल्लको विपाकप्राप्तस्त्यानर्द्धिनिद्रासहितो द्विरदेन दिवा खलीकृतः, ततः स तस्मिन् बद्धाभिनिवेशो रजन्यां स्त्यानद्धर्युदये वर्तमानः समुत्थाय तद्दन्तयुगलमुत्पाट्य स्वोपाश्रयद्वारि च प्रक्षिप्य पुनः सुप्तवान् इत्यादि / तद्विपाकवेद्या कर्मप्रकृतिरपि स्त्यानर्द्धिः 5 / तथा चक्षुषा दर्शनं चक्षुर्दर्शनम् , तस्यावरणं चक्षुदर्शनावरणम् 6 ।अचक्षुषा-चक्षुर्वर्जशेषेन्द्रिय-मनोभिर्दर्शनमचक्षुर्दर्शनम् , तस्यावरणमचक्षुर्दर्शनावरणम् 7 / अवधिरेव दर्शनं-रूपिद्रव्यसामान्यग्रहणमवधिदर्शनम् , तस्यावरणमवधिदर्शनावरणम् 8 / केवलमेव-सकलजगद्भाविवस्तुस्तोमसामान्यग्रहणरूपं दर्शनं केवलदर्शनम् , तस्यावरणं केवलदर्शनावरणम् 9 / अत्र निद्रापञ्चकं प्राप्ताया दर्शनलब्धेरुपघातकृत् , चक्षुर्दर्शनावरणादिचतुष्टयं तु मूलत एव दर्शनलब्धिमुपहन्ति / आह च गन्धहस्ती निद्रादयः समधिगताया एव दर्शनलब्धेरुपघाते वर्तन्ते, दर्शनावरणचतुष्टय तु उद्गमोच्छेदित्वात् समूलघातं हन्ति दर्शनलब्धिमिति // (तत्त्वा०अ०८सू०८ भाष्यटी०भाग०२पत्र१३५) // ... वेदनीयस्य द्वे उत्तरप्रकृती, तद्यथा-सातवेदनीयमसातवेदनीयं च / तत्र सातं सुखं तद्रूपेण यद् वेद्यते तत् सातवेदनीयम् 1 / असातं दुःखं तद्रूपेण यद् वेद्यते तद् असातवेदनीयम् 2 // ___मोहनीयस्योत्तरप्रकृतयोऽष्टाविंशतिः / मोहनीयं हि द्विधा, तद्यथा-दर्शनमोहनीयं चारित्रमोहनीयं च / दर्शनमोहनीयमपि त्रिधा, तद्यथा-मिथ्यात्वं सम्यग्मिथ्यात्वं सम्यक्त्वं च / तत्र यदुदयाद् जिनप्रणीततत्त्वाश्रद्धानं तद् मिथ्यात्वम् 1 / यदुदयात् पुनर्जिनप्रणीतं तत्त्वं न सम्यक् श्रद्धत्ते नापि निन्दति, मतिदौर्बल्यादिना सम्यगसम्यग् वा एकान्तेन निश्चयाकरणतः सम्यक्श्रद्धानकान्तविप्रतिपत्त्ययोगात् तत् सम्यग्मिथ्यात्वम् 2 / उक्तं च शतकबृहचूर्णी जहा नालिकेरदीववासिस्स अइखुहाइयस्स वि पुरिसस्स एत्थं ओयणाइए अणेगविहे ढोइए तस्स आहारस्स उवरिं न रुई न य निंदा, जेण कारणेण 1 सं० 1 त० म० °ष्टयं उद्गमोच्छेदित्वात् समूलघातं दर्श° // . 2 यथा नालिकेरद्वीपवासिनोऽतिक्षुधादितस्यापि पुरुषस्य अत्र ओदनादिकेऽनेकविधे ढौकिते तस्याहारस्योपरि न रुचिर्न च निन्दा, येन कारणेन स ओदनादिक आहारो न कदाचिद् दृष्टो नापि श्रुतः, एवं सम्यरिमभ्यादृष्टेरपि जीवादिपदार्थानामुपरि न रुचिर्न च निन्दा / /