________________ मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [ गाथाः सो ओयणाइओ आहारो न कयाइ दिट्ठो नावि सुओ, एवं सम्मामिच्छ- . . दिहिस्स वि जीवादिपयत्थाणं उवरिं न रुई न य निंदा इत्यादि। यदुदयात् पुनः सम्यग जिनप्रणीतं तत्त्वं श्रद्धत्ते तत् सम्यक्त्वम् 3 / चारित्रमोहनीयं पुनर्द्विधा, तद्यथा-कषाया नोकषायाश्च / तत्र कष्यन्ते-हिंस्यन्ते परस्परमस्मिन् प्राणिन इति कषः-संसारः, तमयन्ते-गच्छन्त्येभिर्जन्तव इति कषायाः-क्रोध-मान-माया-लोभाः, ते च प्रत्येकमनन्तानुबन्धि-अप्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनभेदाच्चतुर्विधाः / तत्रानन्तं संसारमनुबन्नन्तीत्येवंशीला अनन्तानुबन्धिनः / [ उक्तं च यस्मादनन्तं संसारमनुबध्नन्ति देहिनाम् / ततोऽनन्तानुबन्धीति, संज्ञाऽऽद्येषु निवेशिता // ] तथा न विद्यते स्वल्पमपि प्रत्याख्यानं येषामुदयात् ते प्रत्याख्यानाः / उक्तं च नाल्पमप्युत्सहेद् येषां, प्रत्याख्यानमिहोदयात् / अप्रत्याख्यानसंज्ञाऽतो द्वितीयेषु निवेशिता // तथा प्रत्याख्यानं सर्वविरतिरूपं आवृण्वन्तीति प्रत्याख्यानावरणाः, कृत् "बहुलं" (सिद्धहे० 5-1-2) इति वचनात् कर्तर्यनट् , सर्वविरतिविघातिनो देशविरतिनिबन्धना इत्यर्थः। उक्तं च सर्वसावद्यविरतिः, प्रत्याख्यानमिहोच्यते / तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता // तथा परीषहोपसर्गोपनिपाते सति चारित्रिणमपि सम्-ईषद् ज्वलयन्तीति संज्वलनाः / [उक्तं च-- परीषहोपसर्गोपनिपाते यतिमप्यमी / समीवज्वलयन्त्येव, तेन संज्वलनाः स्मृताः // ] चत्वारश्चतुर्गुणिताः षोडश भवन्तीति कृत्वा षोडश कषायाः। तथा कषायसहचारिणो नोकषायाः / नोशब्दोऽत्र सहचारवाची / कषायसहचारित्वं च कषायैः सह सदा वर्तनात् कषायो द्दीपनाद्वा / उक्तं च___ कषायसहवर्तित्वात् , कषायप्रेरणादपि / हास्यादिनवकस्योक्ता, नोकषायकषायता // ते च नोकषाया नव, तद्यथा-वेदत्रिकं हास्यादिषट्कं च / तत्र वेदत्रिकं-स्त्रीवेदः पुरुषवेदो नपुंसकवेदश्च / तत्र यदुदयात् स्त्रियाः पुंस्यभिलाषः पित्तोदये मधुराभिलाषवत् स स्त्रीवेदः 1 / यदुदयाच्च पुंसः स्त्रियामभिलाषः श्लेष्मोदयादम्लाभिलाषवत् स पुरुषवेद: 2 / यदुदयात् पुनः स्त्रीपुंसयोरुपर्यभिलाषः पित्तश्लेष्मोदये मजिकाभिलाषवत् स नपुंसकवेदः 3 / हास्यादिषट्कं हास्य-रति-अरति-शोक-भय-जुगुप्सारूपम् / तत्र यदुदयात् सनिमित्तमनिमित्तं वा हसति तद् हास्यमोहनीयम् 1 / यदुदयाद् बाह्याभ्यन्तरेषु वस्तुषु प्रमोदमाधत्ते तद् रतिमोहनीयम् 2 / यदुदयात् पुनर्वाधाभ्यन्तरेष्वेव वस्तुण्वप्रीतिरुपजायते तद् अरतिमोहनीयम् 3 / तथा यदुदयवशात् प्रियविप्रयोगे सोरस्ताडमाक्रन्दति परिदेवते दीर्घ च निःश्वसिति भूपीठे च लुठति तत् शोकमोहनीयम् 4 / यदुदयात् सनिमित्तमनिमित्तं वा तथारूपस्वसङ्कल्पतो बिभेति तद्भयमोहनीयम् 5 / यदुदयवशात् पुनर्जन्तोः शुभा-ऽशुभवस्तुविषयं व्यलीकमुपजायते तद् जुगुप्सामोहनीयम् 6 // 1 सं० सं० 1 त०° नन्तसंसा // 2 सं० 1 त० म० पायैः सह // 3 मुद्रि० °षायैः सह //