Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 9
________________ वाचकानां प्रतिभावः नन्दनवनकल्पतरुसम्पादिके कीतित्रयि । स्वीकरोतु मम साभिनन्दनं वन्दनम् । नन्दनवनकल्पतरोः चतुर्दशोऽङ्कोऽधिगतो मुन्द्रानगरे भवत्कृपाप्रसादरूपेण । "भगवन् ! समेषां सन्मतिं दद्याः" इति प्रास्ताविकं समयोचितम् । 'सहसा विदधीत न क्रियाम्' नाटिकां पठित्वा मनसि हर्षोल्लासो जातः । मम महाविद्यालये करिष्यामि अस्य नाट्यप्रयोगमिति मनःसंकल्पो जातः । मुनिधर्मकीर्तिविजयसम्पादिता आचार्यश्रीविजयनेमिसूरिविरचिता 'रघुवंश-द्वितीयसर्गटीका' अभ्यासपूर्णा मनोरम्या च । विविधा-भ्याससन्दर्भसहिता विशदा तात्पर्यबोधिनी मर्मग्राहिणी चाऽस्ति । मुनिरत्नकीर्तिविजयकथिता आस्वादानुगता कथा रम्या वर्तमान-समयानुरूपा च । धर्मवर्णजातिभेदं विस्मृत्य सेवाधर्मो ह्याचरणीय इत्युपदेशने मुनिना सम्यगोपदेशः कृतः । अन्यान्यतीव सुन्दराणि पुष्पाणि सन्ति कल्पतरोरुपरि । भवतु, अस्याः पत्रिकायाः प्रकाशनं सततं कामयेऽहम् । । IMWARA EM ant भवदीयः डॉ. कान्तिगोरः MARAamirmiY JAN . . . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 98