Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 69
________________ गुणसुन्दरी शीला गुणसुन्दरी शीला • रूपसुन्दरी राहुल: - गुणसुन्दरी राहुल: Jain Education International (संक्रुध्य) रे ! किमेतेन वाग्विलासेन । नाऽऽवश्यको मम कृते उपदेश: । स्वामिनि ! कोपं मा करोतु । (भ्रुकुटिमूर्ध्वकृत्य) रे ! रे ! परिचारिके ! त्वं मे सेविकाऽसि । अद्य मह्यमुपदेशं ददासि ? गच्छ गच्छ । अलमेतया सेवया, सख्या, दास्या च । इदानीमेव मम दृष्टिपथादपसरतम् । (इत्याक्रोशति) व्याधिपीडितजनानां स्वभाव एतादृश एव भवति । ते विना कारणं क्रुध्यन्ति ताडयन्ति च । अतो न कदाऽप्येतादृशेभ्यो जनेभ्यः कोपनीयम् । अस्तु, गच्छामि । (द्वे अपि प्रयातः) (शयने स्वपिति । सक्रोधं स्वपतिमुद्दिश्य, स्वगतम्) रे मूर्ख ! धनान्ध ! तुभ्यं धनमेव रोचते । न तु मे जीवनम् । त्वया धनार्थं मदीयं जीवनं यौवनं, सुखं च निष्फलं कृतम् । त्वं तु सानन्दं परदेशे सुखमनुभवसि । अत्र चाऽहं नितरां पीड्ये । अतो मया जीवनार्थं कामतापशमनार्थं च नूतनजीवनस्य प्रारम्भः करणीयोऽन्यथा प्राणत्यागः करणीय एव । (शयनादुत्प्लुत्य गवाक्षे स्थितवती । चित्तप्रसादकारी मधुरगीतध्वनिः श्रूयते । ततः सा सर्वतो दृष्टि. प्रसारयति ।) (उच्चैर्गायति) प्रियतमे गता क्व त्वमाधारः खलु को मम । कं कथयानि निष्पुण्यः करवाणि किमद्य रे ॥ (गानं श्रुत्वा स्वगतम्) सत्यम्, सत्यम् । एष तु मे योग्योऽस्ति । अपि च कामपीडित एकाकीव प्रतिभाति । रूपेण तु कामदेवसदृशो दृश्यते । ( कामानुरागिणी सा भित्तौ हस्तमास्फालयति । तदा स युवा इतस्तत: पश्यन् गुणसुन्दरीं पश्यति । तां दृष्ट्वा स हसति, गुणसुन्दर्यपि हसति । तस्या मनोभावं ज्ञात्वा तेन यूना शीश्कार : ( Whistle) कटाक्षश्च कृतः । तदा गुणसुन्दरी लज्जया द्वारं पिधाय स्वापवरके गतवती । ) (उच्चैर्गायति) प्रियतमे गता क्व त्वमाधारः खलु को मम । ५४ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98