Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 79
________________ ज INp गुणसुन्दरी - हा हा ! किं सर्वं गतम् ? (सदैन्यं) आम् । ६ शीला - (सबाष्पं) इतः परं किं भविष्यति ! श्रेष्ठी - सर्वं दैवाधीनमस्ति । कृतकर्मणः फलमवश्यं भोक्तव्यमेवाऽस्ति । तथाऽपि व पश्य, एतस्यां पेटिकायामस्माकमापणस्याऽऽवश्यककागदानि विद्यन्ते । अतस्तस्या एतां कुञ्चिकां (हस्तं प्रसार्य) गृहाण । शीला - (स्वीकृत्य) आम् । -> श्रेष्ठी - (निःश्वस्य) मच्चित्ते एकैव चिन्ताऽस्ति यद्, मम सुखशीलाया गुणसुन्दर्याः बीस किं भविष्यति ? सा जीवनं कथं यापयिष्यति ? (शून्यमनस्क इव नभो निरीक्षते ।) गुणसुन्दरी - पितः ! मम चिन्तां मा कार्षीत् । श्रेष्ठी - तनये ! त्वं तु कुलीना सुज्ञा च नार्यस्ति । अतस्त्वं त्वेवमेव कथयः, किन्तु (सबाष्पं) हन्त ! मम गुणसुन्दर्याः..... । (शीलामुद्दिश्य) शीले ! ग्रामे । कार्याणि बहूनि सन्ति । तान्यपि स्वयमेव करणीयानि सन्ति । तथाऽपि - गुणसुन्दर्या यच्छक्यं तत् करणीयम्, अन्यत्कार्यं तु कर्मकरेण कारयेत् । किन्तु तस्या मनः कदाऽपि न पीडयितव्यम् । शीला - तथेति । (श्रेष्ठी गच्छति ।) गुणसुन्दरी - (स्वगतम्) श्वशुरोऽद्य तत्र गमिष्यति । एष अपि शुभसङ्केत एवाऽस्ति । श्वः परश्वो वा यदाऽपि मम मनोवल्लभः प्रियतम आयास्यति तदा तेन सह - यथेच्छं जीवनसुखमनुभविष्यामि । इदानीं तु गृहकार्यं कृत्वैव कालो गमनीयः । ब्ला (इति निर्णीय शीलामुद्दिश्य) शीले ! त्वया दिनपर्यन्तं बहूनि कार्याणि । क्रियन्ते । अत इतः परं त्वया साकमहमपि गृहकार्यं करिष्यामि । श्री शीला - न हि, न हि । भवती तु विश्राम्यतु । M. गुणसुन्दरी - कार्यशून्ये मम चित्ते दुष्टा विचारा आगच्छन्ति । कदाचिद् व्याकुलतया । PROMPANA ६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98