Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 84
________________ न स्यात् तदैवाऽऽश्चर्यम् । ततो यद्वा तद्वा प्रलापेन, क्रोधेन, व्याकुलतया वार चाऽलम् । एतादृश्यां परिस्थित्यां तु धैर्यमेव बलम् । अधुना कोऽप्युपायो । विमर्शनीयो येन तस्या जीवनमपि रक्षितं भवेत् । तथा समाजे कुलस्य गौरवहानिरपिन भवेत्" इति । स्वामिनि ! तत एवैतादृशं मायायन्त्रं वसा रचितमस्ति। गुणसुन्दरी - (साश्चर्यं) किं वाणिज्यं तथैव प्रचलति, किं गृहमपि तदैवाऽस्ति, कि..... 12 श्रेष्ठी - (एतच्छ्रुत्वा प्रविशन्) तनये ! सत्यं तत् । वाणिज्यं तु यथाऽऽसीत् तथैव प्रवर्तते । पूर्वमस्माकं यद् गृहमासीत् तदपि तथैव विद्यते । अतश्चिन्तां मा । कुरु । तव पुण्येनैव मे कुलस्य गौरवं माहात्म्यं च वृद्धि गतम् । समाजे ग्रामे च प्रतिष्ठा वृद्धि गता । (गुणसुन्दरी शीलाया अङ्के वदनं निक्षिप्य रोदिति ।) ( श्रेष्ठी - तनये ! स्वस्था भव । गुणसुन्दरी - पितः ।..... पितः !... (उच्चैरतीवाऽऽक्रन्दते) No श्रेष्ठी - (सस्नेह) तनये ! मा रोदीः । अधुना त्रिलोकपतिमहावीरभगवतो जिनमन्दिरे वार प्रतिष्ठामहोत्सवः प्रवर्तते । तत्र तव पवित्रहस्ताभ्यामेव प्रतिष्ठा करणीयाऽस्ति, अत उत्तिष्ठ । श्रिी गुणसुन्दरी - (दीनमनस्का कम्पितकाया रुदती पितुश्चरणयोः पतित्वा) पितः ! क्षाम्यतु बी भवान् । अहं पापिनी कलङ्किनी कृतघ्ना दुराचारिणी चाऽस्मि । मया भवतो महानपराधः कृतोऽस्ति । अतोऽहमेतादृशमत्युत्तमं कार्यं कर्तुं न योग्या । क्षाम्यतु, क्षाम्यतु । तनये ! नाऽत्र तव दोषः । दुर्दैवात् कदाचिदेतादृशो दुर्विचार उत्पद्यतेऽपि, किन्त्वेतावन्मात्रेण न जनो दुष्टो दुःशीलश्च भवति । » गुणसुन्दरी - पितः ! भवतो धैर्यमौदार्यं गाम्भीर्यं व्यवहारनैपुण्यं च नितरां प्रशंसनीयमस्ति । - वस्तुतो भवान् ज्येष्ठेषु ज्येष्ठोऽस्ति । श्रेष्ठी - (सवात्सल्यं) तनये ! प्रतिकूलपरिस्थितावपि न क्रोधो न चोद्वेगः करणीयः, श्री किन्तु धैर्यमौदार्यं समभावं च धृत्वैव तस्या निवारणार्थं प्रयतितव्यम् । वाला Rakkukkakakakakakakakakka श्रेष्ठी - ६९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98