Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 74
________________ प्रतिष्ठाकीत्तिसत्ताश्च गौरवत्वकुलीनते । अहो ! अद्य धनेनैव हीनोऽपि लभते जनः ॥१॥ ज्ञानिनः पण्डितम्मन्याः सर्वेऽपि योगिभोगिनः । चरणे पतिता यस्याः तस्यै लक्ष्म्यै नमो नमः ॥२॥ अहो ! मम समीपे त्वनेकानि सुवर्णाभरणानि सन्ति । तत एकमाभरणं तस्यै दास्यामि । पश्चात्तु मम सर्वमपि कार्यं सरलं भविष्यति । (पुनरुच्चैर्गायति नृत्यति च ।) (शीलाऽऽगच्छति । गुणसुन्दरी उत्प्लुत्य तामालिङ्गितवती । हस्तं गृहीत्वा शयने उपवेशयति ।) p> गुणसुन्दरी - (कटाक्षपूर्वकं) किं कार्यं साधितं न वा ? शीला - पश्चात् कथयिष्यामि । (हसित्वा चलति) (वस्त्रमाकृष्य) प्रिये ! कथं मां पीडयसि । अधुनैव कथय, अन्यथा मम प्राणाः... शीला - (उच्चैविहस्य) स्वामिनि ! कथयामि, कथयामि । अहं तस्य समीपं गता। भवत्या अभिलाषो गदितः । ‘स क्रोधं कुर्यात्' इति शङ्काऽऽसीत् । 5) KE गुणसुन्दरी - किन्तु.... - गुणसुन्दरी - M रे ! किन्तु, किन्तु इति कथं करोषि ? यज्जातं तत् कथय । C शीला - (सोत्साह) स्वामिनि ! तेनोक्तम् - "यदाऽनाहूताऽपि श्रीदेवी स्वयमागच्छेत् तदा को मूर्खस्तां तिरस्कुर्यात् । लक्ष्मी: तिलकं कर्तुमागच्छेत्तदा मुखप्रक्षालनार्थं गमनशीलो नाऽहम्" इति । द गुणसुन्दरी - (सविस्मयं) अयि ! किं सत्यम् ? । P शीला - आम्, सत्यम्, सत्यम् । आर्ये ! स रूपवान् गुणवान् कुलीनश्च प्रतिभाति । तस्य वाक्कौशल्यमवर्णनीयमस्ति । किन्तु.... "अधुना श्रीअम्बादेव्या तार महोत्सवस्य दिनानि वर्तन्ते । अतो नवदिनेभ्यः पश्चादागमिष्यामि" इति । कथितं तेन । तथा (रक्तकमलं दर्शयित्वा) प्रेम्णः प्रतीकरूपेणैतद् दत्तं तेन, चार (गुणसुन्दरी तत् स्वीकृत्याऽत्यानन्दपूर्वकमाघ्राय चुम्बयित्वा च हृदये लगयति) वाय ܨܨܞ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98