Book Title: Nandanvan Kalpataru 2005 00 SrNo 15 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 7
________________ वाचकानां प्रतिभावः आदरणीये सम्पादिके कीतित्रयि ! जयतु भारती । भवत्या सम्पादितस्य नन्दनवनकल्पतरोश्चतुर्दशोऽङ्कः प्राप्तः । तदर्थं साधुवादाऱ्या भवती । अत्र 'सहसा विदधीत न क्रियाम्' नाम ममैकाङ्कनाटकं प्रकाशितम्, तदर्थमहमाभारी । आचार्यविजयहेमचन्द्रसूरिणा कृता भगवदृषभस्तुतिर्दुतविलम्बितवृत्ते रम्या । अभिराजराजेन्द्रमिश्रकृता गलज्जलिका मनोहराः सन्ति । श्रीविजयशीलचन्द्रसूरिणा प्रस्तुता जैनाचार्यश्रीविजयनेमिसूरिविरचिता महाकविकालिदासकृतरघुवंशद्वितीयसर्गस्य त्रिंशश्लोकपर्यन्तं प्राप्ता टीका सारगर्भिता विद्वत्तया च परिपूर्णा विद्यते । मुनिरत्रकीर्तिविजयस्य चिन्तनधारा चिन्तनयोग्या । कथात्रयमपि वरम् । सम्पादकीयं प्रास्ताविकं मननयोग्यमस्ति । अन्या रचना अपि चित्ताकर्षणयुक्ताः सन्ति । अतो नन्दनवनकल्पतरोः प्रकाशनं निरन्तरं समये स्यादित्यहं कामये । भवदीयः आचार्यः रामकिशोरमिश्रः २९५/१४, पट्टीरामपुरम खेकड़ा (बागपत) उत्तरप्रदेशः-२०११०१ । - Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 98