Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 30
________________ । ये भुञ्जन्ते ते स्वास्थ्यहानिं लभन्ते । लोलुपो जनो भक्ष्याभक्ष्यस्य पेयापेयस्य च विवेकं कर्तुं न शक्नोति । तेन च तस्य स्वास्थ्येन सह सत्त्वमपि नष्टं भवति । अस्माकं साधूनां मध्ये एका उक्तिः प्रचलिताऽस्ति - ‘अन्नं परकीयं न तूदरम्' इति । अतो यत् स्वकीयं 6 तत् प्रयत्नेन रक्षणीयम् । १८. अन्योन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् - धर्मार्थकामलक्षणान् त्रीनपि वर्गान् साधयेत् किन्तु त्रयाणामपि मध्येऽन्योन्यं कोऽपि केनाऽपि बाधितो यथा न स्यात्तथा साधयेत् । एवं साधिता एवैते सुखाय जायन्ते । १९. यथावदतिथौ साधौ दीने च प्रतिपत्तिकृत् - अभ्यागतानां साधूनां दीनानां च यथाशक्ति प्रतिपत्तिं कुर्यात् । ‘अतिथिदेवो भव' - एषाऽस्माकमार्यपरम्पराऽस्ति । अतिथीनां कृते कदापि ह्यार्यजनस्य गृहं पिहितं नैव भवति । २०. सदाऽनभिनिविष्टश्च - सदैवाऽऽग्रहरहितेन भवितव्यम् । आग्रही कदापि सत्यं ज्ञातुं प्राप्तुं वा न शक्नोति । औदार्याभावे ह्यभिनिवेशः समुद्भवति । अभिनिवेशादुक्तं सत्यमपि समाजे मान्यं न भवति । अतः सत्यपक्षपातिना सत्पक्षपातिना च जनेनाऽभिनिवेशादात्मा प्रयत्नेन रक्षणीयः । २१. पक्षपाती गुणेषु च - गुणेष्वेव पक्षपातो विधेयः, गुणदृष्टिना वा भाव्यम् । सतां गुणानां सङ्कीर्तनेन स्वयमपि गुणी सम्पद्यते नरः । गुणानुरागो हृदयस्य सारल्यं विना न संभवति । "गुणी च गुणरागी च, सरलो विरलो जनः" । सरलतां विना च धर्मोऽपि सिद्धो न भवति । २२. अदेशकालयोश्चर्यां त्यजन् - देशकालाननुरूपं किमपि कार्यं नैव कुर्यात् । यत्र देशे टा __यस्मिश्च काले यदपि विरुद्धं तत्करणं न कदापि यशसे भवति । प्रत्युताऽऽपदेऽयशसे | वा भवति । अतो देशकालानुरूपामेव चर्यां कुर्यात् । २३. जानन् बलाबलम् - स्वीयं बलाबलं विचार्यैव कुत्रचिदपि प्रवर्तेत । शक्तिमतिक्रम्य नि साहसं नैव कुर्यात् । अन्यथा पश्चात्तापो भवति । २४. व्रतस्थज्ञानवृद्धानां पूजकः - व्रतस्थानां ज्ञानवृद्धानां च जनानां पूजन-सेवां कुर्यात् । तेषां प्रत्यादरेण वर्तितव्यम् । व्रतस्थानामादरेण सेवया च स्वकीयेऽपि जीवने व्रतप्राप्तिः 9 . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98