Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 48
________________ मुखे प्रविशन् वृषभ: स्वप्ने दृष्टोऽतस्तवैकस्तेजस्वी गुणगणैश्चाऽनन्यसदृशः पुत्रो भविष्यति ।' धारिण्यपि तद्वच उररीकृत्य सुखंसुखेन गर्भं पालयति स्म, यथाकालं च प्रसरत्कान्ति पुत्ररत्नमेकं प्रसूते स्म । वृत्तमिदं ज्ञात्वा राजाऽपि महामहः पुरस्सरं विशिष्टं वर्धापनकं कारितवान् सर्वेभ्योऽपि च प्रजाजनेभ्यो महार्घोपायनदानादिभिः प्रीणितवान् । तत: स्वप्नानुसारं तस्य नाम वत्सराज इति प्रस्थापितवान् । एषोऽपि बालो द्वितीयाचन्द्रमा इव गुणगणैर्देहोपचयेन चाऽवर्धततराम् । अष्टमे वर्षे च प्राप्ते स कलाशिक्षणाय शोभने दिने कलाचार्याय समर्पितो राज्ञा । बालोऽप्येष पूर्वजन्माभ्यस्तसमस्तकल इवाऽल्पेनैव कालेन सर्वमपि कलाकलापमनन्यसमतया शिक्षितवान्, अन्यमपि च गुणनिकुरम्बं दृढमभ्यस्तवान् । एवं च सर्वकलाप्रवीणे गुणशालिनि च तस्मिन् सर्वेऽपि पौरा गाढमनुरागमुद्वहन्ति स्म । अत्राऽन्तरे सहसा पूर्वकर्मविपाकै राजा महारोगाक्रान्तोऽभवत् । तथाहि - दाहज्वरेण तच्छरीरं वनदवेन तप्तस्य कुञ्जरस्येव संतप्यते स्म, श्वास - कासरोगैस्तद्देहो वृक्षपतितपर्णमिव शुष्यते स्म तथाऽन्यैरपि बहुविधैर्दारुणै रोगैस्तद्देहो जर्जरितोऽभवत् । एवंविधवेदनाभरविकलं राजानं दृष्ट्वा भट-सामन्तादयः परिजना राज्ञीप्रमुखाश्च परिवारजनाः सर्वेऽपि दुःखसन्तप्तहृदया: सञ्जाताः । तैर्झटिति राजवैद्या आकारिताः । वैद्यैरागत्य नृपदेहः परीक्षितः । ततः परस्परं किमप्यालोच्य निराशतया कथितं तैर्यदेते व्याधयः सर्वथाऽसाध्याः सन्ति । - एतच्छ्रुत्वा तत्रस्थाः सर्वेऽपि स्वजनपरिजनादयः कम्पिता हृदये । तेषां परस्परं संलापाः प्रारब्धा यथा – 'यदि राजा पञ्चत्वं प्राप्स्यति तदा कस्तस्योत्तराधिकारी भविष्यति ? यद्यपि कुमारो देवराजो ज्येष्ठोऽस्ति तथाऽपि गुणैर्ज्येष्ठो वत्सराज एव नृपत्वाय सर्वथा योग्योऽस्ति, अतः स एव राजा भवतु' इत्यादि । एवंविधान् संलापान् श्रुत्वा कश्चन मन्त्री देवराजेन विविधप्रलोभनादिभिः साधितः । ततश्च द्वावपि सम्मील्य गज- तुरगादिसमूहं स्ववशं कर्तुमारब्धौ । एतत् कोलाहलं श्रुत्वा राज्ञा स्वपरिचारकाः पृष्टा: ‘भोः ! किमर्थमेष आघट्टः ?' तदा तैरपि सर्वं यथावस्थितं कथितं यथा ‘देव ! इदमीदृशं जात’मिति । एतेन मनस्यधिकं सन्तप्तो राजा विलपति स्म - 'हा हा ! इदं तेन मन्त्रिणा सर्वथाऽयुक्तं विहितम् । वत्सराजकुमाराद् ऋते नाऽन्यः कश्चिद् Jain Education International ३३ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98