Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
राजपदार्होऽस्ति । अहं च ईदृशीमवस्थां प्राप्तोऽस्मि, किं करिष्ये ? अहो ! अथवा भवत्वेतदपि ..... ' । इति कथयन् राजाऽत्यन्तं दुःखितहृदयस्तत्क्षणमेव पञ्चत्वं प्राप्तः ।
अथ च मन्त्रिसाहाय्येन देवराजकुमारः स्वयमेव स्वं राजत्वेन घोषयित्वा सिंहासनमारूढः । वत्सराजकुमारोऽपि सरलहृदयतया सर्वमपि स्वीकृत्य प्रतिदिनं ज्येष्ठभ्रातुः सेवां करोति स्म, जनकमिव च विनय - नमस्कारादिकां सर्वामपि प्रतिपत्तिं विधत्ते स्म ।
परन्तु प्रजाजनानां सर्वेषामप्यनुरागो वत्सराजकुमारे एवाऽऽसीन्न तु देवराजे । एतज्ज्ञात्वा मन्त्रिणश्चित्तं चिन्ताकुलं जातं यद् 'नूनमेष यदाकदाचिदपि राज्यं हस्तसात् करिष्यति, अतो यावदेष व्याधिः कोमलोऽस्ति तावदेवाऽस्य कश्चिदुपायोऽन्वेष्टव्यः ।' ततश्च दुर्जनस्वभाव: स मोहमूढमतित्वात् नानाविधान् विकल्पान् कर्तुमारब्धः ।
अथवा, किमत्राऽऽश्चर्यं ? यतो दुर्जनानां प्रकृतिरेवेदृशी । अत्राऽर्थे विद्वांसोऽप्येवं भणन्ति यत् – ‘अस्मिञ्जगति शुद्धस्वभाववान् साधुजनोऽन्यथैव व्यवहरति, किन्तु दुष्टस्वभावो दुर्जनजनस्तमन्यथैव मन्यते । यथा यथा परिशुद्धधियः सुजनाः स्नेहेन काश्चित् चेष्टाः कुर्वन्ति, तथा तथेतरोऽपि दृढतया ता अन्यथैव विकल्पते । '
अथ च, मन्त्री तत्क्षणमेव देवराजनृपान्तिकं गत्वा विनिवेदितवान् - 'प्रभो ! एष तव लघुभ्राता एवं वर्धमानो न शोभनो भवतो हिताय ।'
देवराजेन पृष्टं - ' तर्हि किमत्र क्रियते ?'
'स्वामिन् ! निर्विषय: क्रियतामेषः, येन भवतो न कोऽप्यपायो भावी तत्सकाशात्' । राज्ञाऽपि तद्ववचः समर्थितं; प्रभातकाले च वन्दनार्थं समागताय वत्सराजकुमाराय समादिष्टं यत् - 'कुमार मम देशं परित्यज्य भवानन्यत्र कुत्राऽपि गच्छतु' इति । 'भवदादेशः शिरोधार्योऽस्तीति साञ्जलि भणित्वा स निजजननीपार्श्वे गतः । तस्यै च सर्वमपि यथावृत्तं कथितवान् सः । साऽपि तन्निशम्य मन्युभरपूर्णमानसाऽश्रुपूर्णनयना चाऽत्यन्तं दुःखिता जाता । तां दुःखिनीं दृष्ट्वा वत्सराजेन विज्ञप्तं 'मातः ! मैवं शुचत्, अथ च मे गमनादेशं प्रयच्छतु ।'
‘पुत्र ! यद्येवं तर्ह्यहमपि त्वया सहैव निजभगिनीयुताऽवश्यमागमिष्यामि ।' ‘किन्तु मात: ! देशान्तराण्यतीव विषमाणि भवन्ति । भवती पुनः सुखसमुचिताऽस्ति ।
३४
For Private & Personal Use Only
Jain Education International
-
www.jainelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98