Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 52
________________ भवत्योरुचितं प्रतिभाति तदाऽयं मे गोधनं रक्षतु ।' एतन्निशम्य यत्किञ्चिदर्दवितर्दै च * Ho विचिन्त्याऽनिच्छन्त्यावपि ते श्रेष्ठिवचनमङ्गीकृतवत्यौ । वत्सराजकुमारोऽपि च सुविनीतत्वात् A चित्तेऽभाव्यमानमपि तत् कार्यं जननीवचसा कर्तुमारब्धः, प्रतिदिनं च श्रेष्ठिनो गोवत्सादीन् । गृहीत्वाऽटवीं गच्छति । अथाऽन्यदा स एवमेवाऽटवीं गतः सन् चरत्सु गोवत्सेषु कस्यचिद् वृक्षस्याऽधो Hd विश्राम्यति स्म । तावता कुतश्चित् प्रदेशात् तेन शस्त्रचालनशब्दः श्रुतः । सोऽचिन्तयत् यद और 'ननु कुत्रचित् कोऽपि शस्त्रचालनाभ्यासं करोति इति प्रतिभाति, यत एष शब्दस्तस्यैवाऽस्ति ।' 'नूनं मया द्रष्टव्यमेतद्' इति निश्चित्य शब्दानुसारं स वनखण्डमध्यभागं प्राप्तः । तत्र च तेन बहवः कुमाराः कलाचार्यसान्निध्ये नानाशस्त्राणि चालयन्तो दृष्टाः । एतेनाऽत्यन्तं हृष्टो हर्षेण पर चोत्फुल्ललोचनः स एकस्मिन् कोणे स्थित्वा तेषां विज्ञानं पश्यति स्म । ... यदि कश्चित् कथञ्चिदीषदपि घाताद् भ्रश्यति तदैष ‘हा हा...' इति वदन् मुखे र विच्छायतां भजति स्म, यदि च कश्चित् लक्ष्ये स्थाने वा प्रहारं निपातयेत् तदाऽतीव सन्तोषेण 'साधु भोः ! साधु...' इति वदन् प्रफुल्लत्वं भजति स्म । एवं कुर्वाणं तं दृष्ट्वा कलाचार्येण चिन्तितं, 'नूनमेष शस्त्रास्त्रचालने कोविदोऽस्ति यतो बालोऽप्येष एवं शस्त्राणां मर्माणि जानाति ।' ततस्तेन निजसमीपे आहूय पृष्टोऽसौ- 'वत्स ! कोऽसि त्वम् ? कुतस्त्यश्चाऽसि ?' - तेनाऽपि गदितं - 'तात ! अहं वैदेशिकोऽस्मि, कौतुकेनेदं प्रेक्षितुमत्राऽऽगतोऽस्मि ।' 'त्वं कियन्मानं शस्त्रास्त्रव्यापारणं जानासि ? कथय माम् ।' _ 'प्रभो ! सङ्गतिवशात् किञ्चित् परिचयमानं ममाऽस्ति शस्त्राणाम् ।' ततः कलाचार्येणाऽऽदिष्टं, 'वत्स ! शस्त्रं करे कृत्वा स्वविज्ञानं दर्शयाऽस्माकं तावत् ।' असावपि तदङ्गीकृत्य सर्वेष्वर्थेषु स्वकौशलं प्रकटितवान् । एतद् दृष्ट्वा सर्वेऽपि विस्मतचित्ताः म सञ्जाताः । सर्वेऽपि च तमभिनन्दन्ति स्म । एवं चाऽनेन सर्वैः सह शस्त्रचालनप्रयोगाः कृताः कञ्चित् कालं, तावत् कुमाराणां । कृते राजप्रासादात् वरभोजनं गृहीत्वाऽनुचराः समायाताः । कुमारैस्त्वेषोऽपि सहैव प्रवर१ भोजनविधिना भोजितः । ततः पुनरपि सर्वेऽभ्यासनिरता अभवन् । विकाले च सञ्जातेऽयं निजगृहं प्रति प्रस्थितः । तस्य गोवृन्दं तु सति दिवस एव स्वरक्षकमदृष्ट्वा गृहे समागतमासीत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98