Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 56
________________ तावत् ताभ्यां वृक्षोपर्यवलम्बमानः काष्ठबन्धो दृष्टः । 'नूनमत्र देवकुले कोऽपि वर्तते । मन्ये, Ho तेनैव मम कञ्चको गृहीतो भवेत् । चल, तावद् भापयावस्तं येन स बहिनिःसरेद्' इति A प्रभावत्या स्वसख्यै गदितम् । ततो द्वे अपि तत्र गत्वा वदतः स्म यद्, 'रे मनुष्य ! द्रुतं निर्गच्छ देवकुलात्, कञ्चुकं चाऽर्पय मेऽन्यथा तव शीर्ष लविष्यावः ।' एवंविधेषु बहुष्वपि - भयोत्पादकेषु वचनेषु कथितेष्वपि कुमारः सत्त्वशालित्वान्नैव मनागपि भीतः । एते अपि । यक्षभयात् कपाटौ नोद्घाटयतः स्म । किञ्चिद् विचिन्त्य वेगवत्या कथितं, 'हले ! यः कोऽपीहोषितोऽस्ति तस्य जनन्यादयो । नगरमध्येऽस्य चिन्तयाऽधृतिवशाद् विलपन्तो भवेयुरेव । अतस्तत्र गत्वा तेषां रोदनशब्दं च । का श्रुत्वाऽत्राऽऽगच्छाव तद्विलापानुकरणं च कुर्याव येनैष तच्छ्रुत्वा द्रुतं निर्गमिष्यति ।' ___ 'अयं तु समीचीन उपायः; चल तावत् गत्वाऽऽगच्छामः' इत्युक्त्वा प्रभावती सख्या 1 सह नगरी प्राप्ता । तत्र च धारिणीदेवी विमला च सत्यमेव विलपन्त्यौ आस्ताम् । यथा, म म हा दैव ! हतविधे ! किं त्वं कर्तुं प्रवृत्तोऽसीदम् ? प्रथममेव त्वया जगज्जैत्रोऽपि नौ भर्ता । Vवातेन दीप इव विध्यापितः, ततोऽपि निर्दयमनसा त्वया निरेनसोऽपि वयं परदेशे निष्कासिताः, मा - तदपि च यथा तव पर्याप्तं न प्रतिभातं तथा दुःसहदारिद्यमपि समानीतम् । तदपि वयं परकर्म * कृत्वा सहमाना आस्म, किन्तु तत्राऽपि तवेर्ध्या जाताऽतो रे निर्लज्ज ! अद्याऽऽवां पुत्रेणाऽपि AM वियोजिते ? हा सकलकलाकुशल ! मातृवत्सल ! वत्सराज ! वत्स ! आवामनाथे मुक्त्वाऽद्य 1 श्री कुत्र गतोऽसि ? निष्पुण्याभ्यामावाभ्यामद्येन्धनकृते परुषवचनैस्तर्जयित्वा प्रेषित इति रुष्टोऽसि . वा ? क्षमस्व पुत्र ! तत्, लघु आगच्छ च गृहं, मा विलम्बं कुरु, अन्यथा नौ हृदयं तडिति Va श स्फोटिष्यति, नाऽत्र सन्देह; ।' इमे विद्याधर्यो सर्वमिदं विलपितं श्रुत्वा नामादि च ज्ञात्वा क्षणेनाऽटवीं प्राप्ते । तत्र च देवकुलिकाया बहिरागत्य तयोरेवं स्वरेण विलपितुमारब्धवत्यौ – 'हा वत्सराज ! वत्स ! । तव वियोगेऽतीव दुःखार्ते आवां त्वां गवेषयन्त्यौ झटित्यत्र प्राप्ते । कुत्राऽसि त्वं भोः !, शीघ्रं र - दर्शनं देहि अन्यथा नौ जीवितमेव सन्दिग्धम् !!' एतत् श्रुत्वा कुमारः सहसा चित्ते चमत्कृतः, 'नूनमेष मम जनन्योरेव शब्दोऽस्ति । H अतो बहिर्निर्गत्य तयोधृति प्रापयेयं तावत् । ..... अथवा, स्थगितद्वाराया पुर्या र V मध्यात्तयोरत्राऽऽगमनं कथं वा सम्भवेत् ? नूनमेते ते विद्याधर्यो एव यौ स्वार्थवशाद् मम । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98