Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा ।
स्पर्शरहस्यम्
__ मुनिरत्नकीर्तिविजयः प्रख्यातो वैष्णव आसीदाचार्यरामानुजः । स यदा वृद्धो जातस्तदा त्वन्यन्तमशक्तो जातः । कुत्रचिदपि गमनागमनं तदर्थं कष्टकरं सञ्जातम् । तथाऽपि कस्यचित् स्कन्धमवलम्ब्याऽपि स स्नानार्थं नित्यं नदीं गच्छति स्म । नदी प्रति गमनसमये स स्वकीयब्राह्मणशिष्यस्य स्कन्धमवलम्ब्य गच्छति स्म किन्तु स्नानान्तरं निवर्तनसमये च शूद्रजातीयस्य स्वशिष्यस्य स्कन्धमवलम्ब्य स्वस्थानं प्रति निवर्तते स्म । एष हि तस्य नित्यक्रमः सञ्जात आसीत् ।
अथैकदा रामानुजाचार्यस्यैतादृशीं विचित्रां रीतिं दृष्ट्वा केचित् पुरातनविचारपरम्परां वहन्तः सनातनीया जना असन्तुष्टा जाताः । 'किमपि करणीयमत्र' इति विचिन्त्य सर्वेऽपि सम्मील्य रामानुजाचार्यस्य समीपे गतवन्तः । 'आचार्यवर्य ! भवते किञ्चिन्निवेदयितव्यमस्ति' इति बलादाक्रोशं रुन्धन्तोऽवदन् । आचार्यः - कथयन्तु तावत् ! सर्वे - भवतो रीतिरस्मभ्यं नैव रोचते । आचार्यः - एवम् ? कां रीतिमाश्रित्य भवतां समेषामरुचिः ? सर्वे - भवान् सदा स्नानार्थं गच्छति तदा ब्राह्मणस्य स्कन्धमवलम्बते किन्तु
निवर्तनसमये शूद्रमवलम्बते । एषा नाऽस्मत्परम्परानुरूपा रीतिः । आचार्यः - तर्हि ? सर्वे - शूद्रस्य स्पर्श एव वर्जनीयो भवता । तथाऽपि यदि करणीय एव तर्हि स्नानात्
पूर्वमेव करणीयः, न तदनन्तरम् ।
एतच्छ्रुत्वाऽऽचार्यो हसन्नुवाच- भोः ! किं भवन्तो जानन्ति यदहं किमर्थमेवं करोमि ? भवन्तो यं शूद्रं मन्यन्ते तस्य स्कन्धेऽहं स्नानान्तरं यद् हस्तं स्थापयामि तत्तु मम जात्यभिमानस्य प्रक्षालनार्थमेव । तादृशी शुद्धिस्तु जलेन नैव कर्तुं शक्या । सत्यं खलु ?
आचार्यस्य प्रत्युत्तरेण सर्वेऽपि तूष्णीका जाताः ।
३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98