Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 44
________________ R) श्रीभक्तसिंहः, काकोरीकाण्डम्, बमविष्फोटकाण्डकम्, पश्य गतो राकेशो नभसा, समागतो र राकेशो गगनात्, रूप्यकमहिमा, एहि सुरभे देवि, प्रिये ! प्रेम तव जीवनसारः, बालगीतम्, 8 हिन्दुराष्ट्रम्, स्वतन्त्रता, जयतात् सा, भावना, शोकगीतम्, कविचिन्ता चेति कविता विभान्ति। B)लेखषट्के लेखाश्च सन्ति-स्वतन्त्रतासेनानीः श्रीमङ्गलपाण्डेयः, भारतीयसंस्कृतौ योगस्य ( महत्त्वम्, यतो धर्मस्ततो जयः, अथर्ववेदे रोगोपचारः, संस्कृतवाङ्मयेऽन्नपरककृषिः, ( र वर्तमानभारतस्य विभिन्नक्षेत्रेषु संस्कृतस्य स्थितिश्च । मिश्रमहाभागस्य कृतिरियं तत्साहित्यसर्जनासौन्दर्यस्य सुरभिं प्रसारयति । अत्र |8) यद्यपि काश्चन रचनाः प्रागपि प्राकाश्यं नीताः सन्ति, तथापि तासामत्र संकलनं ग्रन्थस्याऽस्य R)श्रियं संवर्धयति । 'त्यागपत्रनिरासे' विद्योत्तमायाः चरितं भारतीयनार्या गौरवभमिवर्धयति, ॐ किन्तु सौभाग्यनिशायां तस्याः प्रगल्भता मर्यादां न रक्षति । एवंविधं तत्कथनं कथमपि न Va युज्यते । अपि कापि नवपरिणीता नारीत्थं वदति ? 'एतौ हि सर्वः पिबतीह लोकः, प्रेम्णा गृहीत्वा च करद्वयेन । 3) एहि त्वमग्रे हि कुचौ गृहाण, पीत्वाधरं मे प्रणयं कुरुष्व ।।' इति (सा., पृ. १६) ( एतादृशानि स्खलितानि 'देवयान्याम्' अपि विद्यन्ते । 'श्रीचन्द्रशेखरचरिते'* भारतराष्ट्रस्य स्वाधीनतायै स्वजीवितमर्पितवतो देववाणीसमाराधनारतस्य साहसिका-3 नामग्रगण्यस्य श्रीमतः चन्द्रशेखरस्य चरितं नितरां रम्यतरमस्ति, किन्तु तत्र कस्यचित् कवेः/ 8)'चलन्तु देशभक्ताः प्रयान्तु देशभक्ताः ।' (तत्रैव, पृ. ८२) इति कवितायाः स्वरचनायां ग्रहणं B) ग्रन्थकृतः कीर्तिं नैव वर्धयति । कविकर्मदक्षो डा.मिश्रोऽत्र नूतनां कवितां रचयेत् । ॐ R) 'कवितैकविंशके' राष्ट्रभक्तान् समाश्रित्य प्रणीताः कविता राष्ट्रानुरागभावान् युवकेषु (ॐ जनयन्ति । अन्याश्च कविता अप्यत्र चित्रं हरन्ति । 'क्रान्तिकारी कदाचिद्वै, दण्डाद् बिभेति नो क्वचित् ।। विचारा इति यस्याऽऽसन्, भक्तसिंहं नमामि तम् ॥' (तत्रैव, पृ. ११०) 'लेखषट्के' 'स्वतन्त्रतासेनानी: श्रीमङ्गलपाण्डेयः' इति लेखने पाण्डेयवर्यस्य B)चरितं विशदतया वर्णितं राष्ट्ररक्षायाः सत्प्रेरणामुद्भावयति । वस्तुत आङ्लशासकानां विरुद्धे ( भारतीयानां स्वाधीनतायै कृतस्य तस्य कार्यस्य कृते संस्कृतभाषायामेको विशालकायो | Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98