Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 42
________________ asics स्मरणं जागृतमभूत् । तदैका पङ्क्तिः स्मृतिपथमागता - "हे भगवन् ! सौराष्ट्रप्रदेशे कदाचिदतिथीभूयाऽऽगच्छ, तदा स्वर्गमपि विस्मारयिष्यामि " । एषा पङ्क्ति चरितार्था जाता । बन्धो ! अस्मिन् देशेऽद्याऽप्येतादृशा बहवो जनाः सन्ति, ये करुणा-प्रेम- नीतिमत्ता^ संवेदनादीनां साक्षाद् मूर्तयः सन्ति । तेऽद्याऽप्यपेक्षां विना केवलं परोपकारबुद्ध्यैव स्वजीवनं गमयन्ति । तत एव यावदेकोऽप्येतादृशो जनोऽस्यां भुवि विद्यते तावदेषाऽऽर्यसंस्कृति`रखण्डाऽभग्ना जागृता च स्थास्यत्येवेति निश्चितमस्ति । अन्ते, किं बहुना ? यथा कागमहोदयेन कथितं तथाऽहमपि त्वां निमन्त्रयामि यत्, त्वमेकदा सौराष्ट्र प्रदेशेऽस्मिन् आगत्याऽत्रत्यानामातिथ्यमनुभव । तदैव ज्ञास्यते ' किं नाम सौराष्ट्रस्याऽऽतिथ्यम्' इति शम् । Jain Education International प्रकामं वेपते यस्तु, कम्पमानश्च गच्छति । कलापखअं तं विद्या-न्मुतसन्धिनिबन्धनम् ॥ (आचाराङ्गटीका) २७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98