Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 43
________________ 'साहित्यसुरभिः ' ग्रन्थसमीक्षा * (समीक्षकः - रूपनारायणपाण्डेयः, एस्. II / 330, राज्यशिक्षासंस्थान कालोनी, एलनगञ्जः, प्रयागः, उ.प्र. - २११००२ ) ग्रन्थकारः प्रकाशकश्च - डा. रामकिशोरमिश्रः, ३७७/१४, पट्टीरामपुरम्, खेकड़ा- २०११०१ * (बागपत), उत्तरप्रदेश: । पृ.सं. १४४, प्र.व. २०५९ वि. । मूल्यम् - १००/ विश्ववाङ्मये स्वसाहित्यगरिम्णाऽद्यापि विराजतेतरां सुरभारती । तत्साहित्यसंवर्धने साम्प्रतं ये विद्वांसः कृतिनः सन्ति, तेषु डॉ. रामकिशोर मिश्रमहोदयो नानाविधसाहित्यग्रन्थानां * प्रणयने प्रमुखतां भजते । तेन विविधविधसाहित्यसंग्रहात्मको ग्रन्थः 'साहित्यसुरभि:' इति * नाम्ना प्राणायि । ग्रन्थेऽस्मिन् भागत्रयं शोभते नाट्यत्रयी, कवितैकविंशकम्, लेखषट्कञ्च नाटकत्रय्यां 'त्यागपत्रनिरासे' विद्योत्तमा शास्त्रार्थे पराजिता मूर्ख कालिदासं परिणयति, किन्तु सौभाग्यनिशायां तस्य मूर्खत्वं विज्ञाय तं स्वकक्षाद् बहिष्करोति । विद्वत्त्वं कवित्वं * चोपलभ्य कालिदासः तां पत्नीत्वेन नाऽङ्गीकरोति । विद्योत्तमा विक्रमादित्यराजसभायां >न्यायार्थं याति, न्यायानुसारं कालिदासश्च तां पत्नीरूपेणाऽङ्गीकरोति । 'देवयान्याम्' बृहस्पतिपुत्रः * कचो देवयानौ प्रतिशपति यत् सा ब्राह्मणवरं न लप्स्यते । देवयानीच्छलेन ययातिं परिणयति । शर्मिष्ठामुपपत्नीत्वेनाऽङ्गीकारेण शुक्रो ययातये वृद्धत्वं शपति । ययातिः पुरोर्यौवनं गृह्णाति, शर्मिष्ठानुरोधाच्च पुनस्तस्मै प्रयच्छति । ' श्रीचन्द्रशेखरचरिते' क्रान्तिकारिणां वरिष्ठस्य आजादोपनामकस्य श्रीचन्द्रशेखरस्य जन्मतः प्रारभ्य बलिदानपर्यन्तं साहसिकं स्वातन्त्र्य - भावभरितं चरितं वर्णितं विलसति । आजादसदृशः क्रान्तिवीरोत्तमः कथं धनलोभिनः कृतघ्नस्य कुकृत्यादकाले स्वप्राणान् भारतस्य स्वतन्त्रतायै समर्पितवान् - इत्यत्र सम्यग* ङ्कितमस्ति । कवितैकविंशके- सरस्वत्या वन्दनम्, कालिदासाह्वानम्, संस्कृताक्षादशकम्, वन्दे तं चन्द्रशेखरम् श्रीसुभाषचन्द्रवसुपञ्चकम्, अरविन्दपञ्चकम्, स्वतन्त्रतासेनानीः Jain Education International २८ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98