Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 32
________________ O प्रीतिरेव समुद्भवेत् । तादृशस्य सान्निध्यमपि परस्य कृते सुखाय भवति । ३३. परोपकृतिकर्मठः - परोपकार एव तस्य स्वभावः स्यात् । सदैव स तत्र तत्परो C) भवेत् । किमप्यनपेक्ष्यैव कृतस्य परोपकारस्य मूल्यं महदस्ति । परोपकारी जनः स्वयं e) धर्मं कर्तुं परांश्च तत्र योजयितुं समर्थो भवति । ३४. अन्तरङ्गारिषड्वर्गपरिहारपरायणः - क्रोध-मान-माया-लोभ-हर्ष-कामाः - एते हि षडन्तरङ्गरिपवः सन्ति । तेषां त्यागे, दमने तथा तांश्च प्रतनून् कर्तुं सततं प्रयत्नरतो भवेत् । एतेभ्य एकस्याऽपि प्रभुत्वं न स्यात्तथा मनोवृत्तिं विदध्यात् । एतेषां प्रभुत्वे कि सति धर्मो न विकसति । ३५. वशीकृतेन्द्रियग्रामः - इन्द्रियाधीनं मनो न कुर्यात् किन्त्वात्माधीनानीन्द्रियाणि कुर्यात् । इन्द्रियैः सह विषयाणां संयोगो रोद्धं न शक्यः किन्तु तत्र जायमानं मनःप्रवर्तनं यदि रुध्येत तर्हि स संयोगो विफलो भवति, येनेन्द्रियाण्यात्मानं पाशयितुं नाऽलं भवन्ति । अतो य आत्मोन्नतिमिच्छति तेनेन्द्रियाणि जेतव्यान्येव । उक्तं च - बिभेषि यदि संसाराद्, मोक्षप्राप्तिं च काङ्क्षसि ।। तदेन्द्रियजयं कर्तुं, स्फोरय स्फारपौरुषम् ।। (ज्ञानसाराष्टकम् ७/१) एतैर्गुणैर्युक्तो हि धर्ममार्गाधिकारी भवति । स एव च धर्मं सम्यगवबोद्धं सम्यगाराधयितुं च समर्थो भवति । OOOOOOOOOOD भ्रमावेश: ससंरम्भो, द्वेषोद्रेको हृतस्मृतिः । अपस्मार इति ज्ञेयो, गदो घोरश्चतुर्विधः ।। __ (आचाराङ्गटीका) १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98