Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 33
________________ आस्वादः चिन्तनधारा मुनिरत्नकीर्तिविजयः विपत्तौ किं विषादेन, सम्पत्तौ हर्षेण किम् ? । भवितव्यं भवत्येव, कर्मणामीदृशी गतिः ॥ सुखं च दुःखं चेति द्वयमप्यनुभवरूपमस्ति, सम्पत्तिविपत्तिश्चेति द्वयं च * हूँ निमित्तभूतमस्ति । स्वरूपं तु यत्किमपि स्यात् किन्तु येन केनाऽपि सुखानुभूतिः स्यात् सा * सम्पत्तिः, येन केनाऽपि च दुःखानुभूतिः स्यात् सा विपत्तिः । एतच्च हर्षविषादादीनां * * सुखदुःखादीनां च चक्रं सततं परिवर्तते । कदाचिद् हर्षः सुखं वाऽनुभूयते कदाचिद् विषादो * दुःखं वा । निमित्तानां परिवर्तनेनाऽनुभवोऽपि परिवर्तते । कस्यचिदागमनं श्रुत्वा विपदागतेवाऽनुभूयते, अन्यस्य चाऽऽगमनेन सुखानुभवो जायते । एवमेव चाऽभिप्रायपरिवर्तने * निमित्तान्यपि परिवर्तन्ते- अद्य यावद् यानि दुःखनिमित्तान्यनिष्टानि चाऽऽसन् तान्येवाऽन्यदा * सुखनिमित्तानीष्टानि च भवन्ति । यानि च सुखनिमित्तानीष्टानि च कल्पितानि स्युस्तान्येव दुःखनिमित्तान्यनिष्टानि च जायन्ते । एवमेकत्र कुत्रचिदपि सर्वदा न तुल्यभाव: प्रवर्तते । 21 उक्तं च - "कश्चिच्छुभोऽपि विषयः परिणामवशात् पुनर्भवत्यशुभः । कश्चिदशुभोऽपि भूत्वा कालेन पुनः शुभीभवति ॥ कारणवशेन यद्यत् प्रयोजनं जायते यथा यत्र । तेन तथा तं विषयं शुभमशुभं वा प्रकल्पयति ॥" ___ इति (प्रशमरतिप्रकरणे श्लो. ४९-५०) 3 परिवर्तनं ह्येतत् संसारस्य शाश्वतमनिवार्यं च सत्यमस्ति । यो नामैतत् परिवर्तनं र सम्यग् जानाति, ज्ञात्वा च तत् स्वीकरोत्यपि स एव हि सुखदुःख-हर्षविषादादिद्वन्द्वादुत्तीर्य हूँ सदाऽऽनन्दानुभूति कर्तुं शक्नोति । तदेव च वास्तवं सुखं खलु ! अत्र च श्लोके द्वन्द्वातीतो भवितुं निर्दिष्टमस्ति । यथा विषादादात्मा रक्षणीयस्तथा । र हर्षादपि रक्षणीय एव । यो हि हर्षकाले संयतो न भवति स विषादेनाऽवश्यमेव पीडितो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98