Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 34
________________ * भवति । सुखावसर एव यः सावधानं प्रवर्तते-तिष्ठति वा स दुःखावसरे न कदापि विषीदति । १. * दुःखं यथा सोढव्यं परिगण्यते तथा सुखमपि सोढव्यमेव । यतो द्वयमपि मोहजन्या 5 नुभवरूपमस्ति । किञ्चिन्निमित्तं प्राप्यैव प्रवर्तते द्वयमपि । अतः प्रथमं तावद् हर्षविषाद* सुखदुःखादिषु याऽस्माकमिष्टानिष्टत्वरूपा मतिः प्रवर्तते सा परिवर्तनीया । न च सुखमिष्टं 15 दुःखं चाऽनिष्टमस्ति । द्वयमपि हि निमित्ताधीनत्वादनिष्टमेव । निनिमित्तक: सहजः स्वाधीन से S आनन्द एवैष्टव्यः । श्लोकार्थेनाऽऽनन्दानुभवस्य मन्त्रं किल दर्शयति-"भवितव्यं भवत्येव, कर्मणामीदृशी गतिः " इति । नैतत् सूत्रं निष्क्रियत्वं प्रेरयति किन्तु फलनिरपेक्षतामेव पुरस्करोति । सस हर्षविषाद-सुखदुःखादीनां द्वन्द्वानां जनन्यस्त्यस्माकं फलैषणैव । वयं यत्किमपि कुर्महे तत्र किञ्चिदपि फलं मनसि निधायैव कुर्महे । अत एव च परिणामे हर्षो वा विषादो वाऽनुभोक्तव्य एव भवति । गीतावचनमत्र स्मर्तव्यम् - "कर्मण्येवाधिकारस्ते, मा फलेषु र " कदाचन" इति । वस्तुतस्तु कर्मणि-पुरुषार्थ एवाऽस्माकमधिकारोऽस्ति, न फले । यच्च ) किलाऽस्मदधीनमेव नास्ति तत्र किं हर्षेण वा विषादेन वाऽपि ? यद्यप्येत् सर्वमपि वयं सम्यग् जानीमहे एव तथाऽपि फलैषणां त्यक्तुमशक्नुवन्तो " वयं 'भवितव्यं भवत्येव' इत्यादि विस्मरामः । वस्तुतस्तु, यो नाम फलं नाऽपेक्षते * फलप्राप्त्यवसरे च सुखदुःख-हर्षविषादादिद्वन्द्वेभ्यो विरक्तः सन् कर्मणां वैचित्र्यमेव विचार्य ६ समतयाऽवतिष्ठते पुरुषार्थमेव च स्वधर्मं मत्वा प्रवर्तते स एव निर्द्वन्द्वां स्वाधीनां शाश्वतां चाऽऽनन्दानुभूतिं करोति । सर्वाण्यप्येतानि संस्कारसूत्राण्यस्माकम् । आर्यसंस्कृतावेव चोपलभ्यान्येतानि । " है अतः संस्कर्तव्योऽयमात्मा प्रयत्नेनैतैरेतादृशैश्च सूत्रः, येन सर्वोऽपि शीघ्रमेवाऽऽनन्दभाजनं * भूयादिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98