Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 342
________________ ऋयादिगणः (8) २८५ वरिता वरीता,, वतो वा (७।२।३८) दीर्घः । विवरिता' विवरीता। अवृत, अवरिष्ट,प्रवरीष्ट । वुवर्षते, विवरिषते, विवरीषते । जल्पभिक्ष (३।२।१५५) इति षाकन् - वराकः । वृङ एन्यः (तु० दश० उ० ८। ३) वरेण्यः । वर्वरीका। ग्रहवृदृनिश्चिगमश्च (३।३।५८) अप् -- वरः । स्वादौ वृज वरणे (५६)-वृणोति, वृणुते ॥३७॥ ५५ ४४. श्रन्थ विमोचनहर्षयोः । इतो द्वादश सेट: परस्मैपदिनश्च । श्रथ्नाति । श्रथित्वा श्रन्थित्वा । यकचिणोः प्रतिषेधे श्रन्थग्रन्थब्रज्ञात्मनेपदाकर्मकाणाम् उपसंख्यानम् (तु० ३।१।८६ वा०)-श्रथ्नीते माला स्वयमेव, अश्रन्थिष्ट । श्रन्थिग्रन्थिदन्भिस्वजीनां (तु० ११२६ काशिका) लिट: कित्त्वं, एत्वं चोपसंख्यायते--श्रेथः। चुरादौ श्रन्थ १० ग्रन्थ संदर्भ (१० २२६) वा णिच- श्रन्थयति श्रन्थति । ग्रन्थयति ग्रन्थति । भ्वादौ श्रथि शैथिल्ये, प्रथि कौटिल्ये (१।२६,३०)-श्रन्थते, ग्रन्थते ॥३८॥ . ४५. मम्थ विलोडने। मथ्नाति । भ्वादौ (१।३७) मन्थति, तथा मथे विलोडने (१॥५८४)- मथति ॥३६॥ ४६. ग्रन्थ सन्दर्भ। संदर्भो बन्धनम् । ग्रथ्नाति । ग्रन्थनम् । श्रथ्नातिवद् उदाहार्यम् ॥४०॥ १. सर्वहस्तलेखेषु पठ्यते। २. 'हर्षनयोः' 'प्रहर्षनयोः' प्रतिहर्षनयोः पाठान्तराणि । ३. 'द्वादशः' सर्वहस्तलेखेषु । 'द्वाविंशतिः' इति युक्तः पाठः । ४. 'नोपधात्थफान्ताद्वा' (१।२।२३) किद्विकल्पः । ५. अत्र तरङ्गिण्यां. पाठभ्रंशः प्रतीयते । तथा ह्याह पुरुषकार:- 'संदर्भ श्रथनक्रियायां श्रन्थग्रन्थधातू वर्तेते इति क्षीरस्वामी' (पृष्ठ ७६) अत्र 'श्रथनक्रियायाम्' इत्यस्य स्थाने ग्रन्थनक्रियायाम्' पाठो द्रष्टव्यः । इदं पुरुषकारवचनं सायणोऽप्युदाजहार-'पुरुषकारेऽपि........ सन्दर्भ ग्रथनक्रियायां श्रन्थिग्रन्थि- २५ धातू वर्तेते इति क्षीरस्वामीत्युक्तम्' (धातु० पृष्ठ ३७३) । स्वयं क्षीरस्वाम्यपि भ्वादौ "क्रयादौ श्रन्थ ग्रन्थ संदर्भ" (१।३०) इत्याह । तेनात्र 'श्रन्थ ग्रन्थ सन्दर्भ' इति क्षीरस्वामिनः पाठः स्यात् । अर्थभेदात् श्रन्थि: पुनरत्र पठितः । एवं सन्दर्भो बन्धनम्' इत्यस्य स्थाने 'सन्दर्भो ग्रन्थनम्' इति स्यात् । ६. 'श्रन्थिवत्' पाठा०। Po.

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444