Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 390
________________ चुरादिगणः (१०) ३३३ ३०६. स्तोम श्लाघायाम् । स्तोमयति, स्तोमः, अतुस्तोमत् ।३६१ ३१०. छिद्र कर्ण भेदे। द्वौ धातू । छिद्रयति, कर्णयति, आकर्णयति, करणभेद इति गुप्तः ॥३६२॥ ३११. अन्ध दृष्टय पसंहारे । अन्धयति, अन्दिधयिषति ॥३६३।। . ३१२. दण्ड दण्डनिपातने । दण्डयति ॥३६४॥ ३१३. अकि लक्षणे । अङ्कयति गाम् । भ्वादौ (१।६६) अङ्कते । केचिद् एकादिपदे ॥३६५॥ .. ३१४. अङ्ग पदलक्षणयोः। अङ्गयति, अङ्गितः । अङघेत्ये केअजिघयिषति, पूर्वस्याजिगयिषति । अङ्कत्यन्ये - अञ्चिकयिषति . ॥३६६।। १० ___३१५. सुख दुःख तत्क्रियायाम् । सुखनं दुःखनं च तक्रिया । सुखयति,' सुसुखयिषति । दुःखयति' ॥३६७, ३६८॥ • ३१६. रस प्रास्वादन-स्नेहनयोः। रसयति, रसना, रसः । भ्वादौ रस शब्दे (१।४६६)-रसति, हेतौ रासयति ॥३६९।। ३१७. व्यय गतौ । व्यययति । अवव्ययत् । भ्वादौ (१॥६२०) १५ व्ययति, व्ययते, अव्ययीत्, हेतौ व्याययति, व्ययोऽचि (द्र० ३।१। १३४) ॥३७०॥ ३१८. वित्त समुत्सर्गे। समुत्सर्गस्त्यागः । वित्तयति, वित्तितम्, वित्तित्त्वा । व्यय वित्तसमुत्सर्गे इतिसभ्याः ॥३७१॥ ३१६. रूप रूपक्रियायाम् । रूपक्रिया राजमुद्रादिरूपस्य करणम् । २० रूपयति, रूपकम् । रूपदर्शनं वा-निरूपयति, निरूपणा ॥३७२॥ ३२०. छेद द्वैधीकरणे । छेदयति, अचिच्छेदत् । छेदितम् । अविच्छेद्यम्, विच्छेद्य । रुधादौ (७।३) छिनत्ति, अचिच्छिदत् ।।३७३।। ३२१. छद अपवारणे । छदयति । छद संवरणे (१०।३६, २१५) -छादयति, उणादौ छत्वर (द्र० उ० ३।१), छत्रम् (द्र० उ० ४। २५ १. 'तत्करोतीत्येवंसिद्ध सोपसर्गसमुदायाणिजर्थमिदम्' इति मैत्रेयः तेन असुखयत् अदुःखयत् इत्यादिरूपाणि । २. स्मृतं धातुवृत्तौ (पृष्ठ ४०१)।

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444